SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १४ [ नाम्नि ] नामन् सप्तमी ङि । [ कम्बल्यं परिमाणमूर्णापलशतमुच्यते ] कम्बल । कम्बलोऽस्य स्यात् = 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । ऊर्णापलशतमुच्यते । कम्बलीया ऊर्णा ] कम्बलाय हित: (ता) (७|४|६८) अलुक् । 'आत्' (२|४|१८) आप्प्र० = = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । तस्मै हिते ।। ७।१।३५ ॥ [ तस्मै ] तस्मै पञ्चमी ङसि । सूत्रत्वात् (लोप: ) । [ हिते ] हित सप्तमी ङि । हित उपकारकः । [ वत्सीयः ] वत्सेभ्यो हितः = वत्सीयः । अनेन ईयप्र० । [ करभीयः ] करभेभ्यो हितः = करभीयः । अनेन ईयप्र० । [ पित्रीयः ] पित्रे हितः = पित्रीयः । अनेन ईयप्र० । 'ऋतो रस्तद्धिते' (१।२।२६) रत्वम् । [ मात्रीयः ] मात्रे हितः मात्रीयः । अनेन ईयप्र० । 'ऋतो रस्तद्धिते' (१।२।२६) रत्वम् । कम्बलीया । 'तस्मै हिते' (७|१|३५ ) ईयप्र० । 'अवर्णेवर्णस्य' आ । ऊर्णा || || [ आमिक्ष्यः, आमिक्षीयः ] आमिक्षायै हितः आमिक्ष्यः । 'हविरन्नभेदाऽपूपादेर्यो वा' (७।१।२९ ) यप्र० । ‘अवर्णेवर्णस्य' (७|४|६८) आलुक् । एवम् - आमिक्षीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । = कम्बल्यं परिमाणम् । अनेन यप्र० । [ ओदन्यः, ओदनीयः ] ओदनाय हितः = ओदन्यः । 'हविरन्नभेदाऽपूपादेर्यो वा' (७|१|२९ ) यप्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् - ओदनीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International [अपूप्यः, अपूपीयः ] अपूपाय हितः = अपूप्यः । 'हविरन्नभेदा०' (७।१।२९) यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम्-अपूपीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ हविष्य: ] हविषे हितः = हविष्यः । 'हविरन्नभेदा० ' ( ७|१|२९) यप्र० । [ शुन्यः, शून्यः ] श्वन् । शुने हितः = शुन्यः, शून्यः । ‘शुनो वश्चोदूत्' (७|१|३३ ) यप्र० - वकारस्य " उ- ऊ"कारश्च क्रियते । = [ युग्य: ] युगाय हित: = युग्य: । 'उवर्ण-युगादेर्य:' ( ७|१|३०) यप्र० । [ ऊधन्यः ] ऊधस् । ऊधसे हितः = ऊधन्यः । 'न् चोधसः' (७|१।३२) यप्र०स्० न० । [ अवत्सीय: ] न-वत्स । वत्सेभ्यो न हितः अवत्सीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'नञत्' (३।२।१२५) न० अ० । [न] न प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ अकरभीयः ] न करभ । करभेभ्यो न हितः = अकरभीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'नञत्' (३२/१२५) न० अ० ॥ छा । न राजा ऽऽचार्य - ब्राह्मण - वृष्णः ॥ ७।१।३६ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy