SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ नाभेर्नभ् चाऽदेहांशात् ॥ ७।१।३१ ॥ [नाभेः] नाभि पञ्चमी ङसि । [नभ्] नभ् प्रथमा सि । 'दीर्घयाब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [च] च प्रथमा सि । [अदेहांशात् ] न देहांशः = अदेहांशस्तस्मात् = अदेहांशात् । 'नबत्' (३।२।१२५) न० → अ० । [नभ्यमञ्जनम्] नाभ्यै नाभये वा हितं = नभ्यमञ्जनम् । अनेन यप्र०-नाभे"नभू" चादेशः । यत उक्तं लिङ्गानुशासने-"नाभिनाल्यालिपालि" इति स्त्रीत्वं त्वत्र वाक्ये ज्ञेयम् । (स्त्रीलिङ्गप्रकरणे श्लोकाङ्कः ॥२५॥) [नभ्योऽक्षः ] नाभ्यै नाभये वा हितः = नभ्योऽक्षः । अनेन यप्र०-नाभे"नभ्" चादेशः । [नभ्यं दारु ] नाभये इदं = नभ्यं दारु । अनेन यप्र०-नाभे"नभ्" चादेशः । सि-अम् । अरकमध्यवर्ती अक्षधारणश्चक्रावयवो नाभिस्तदर्थं = नभ्यम् । यत्तु अरकगण्डरहितं पाषाणनयनशकटस्य रहडू इति प्रसिद्धस्य चक्रमेककाष्ठं तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् । [नभ्यो वृक्षः, नभ्या शिशपा] नाभये हितः = नभ्यो वृक्षः । एवम्-नभ्या शिशपा । नभ्यार्थे वृक्षादौ ताच्छब्द्यान्नभ्यत्वम्, इन्द्रायां स्थूणायामिन्द्रवत् । [नाभ्यं तैलम् ] नाभि । नाभये हितं = नाभ्यम् । अत्र न नभादेश:-यप्र० 'प्राण्यङ्ग-रथ-खल-तिल-यव-वृषब्रह्म-माषाद् यः' (७।१।३७) इत्यादिना ॥छ।। न चोधसः ॥ ७।१।३२ ॥ [न्] न् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [च] च प्रथमा सि । [ऊधसः ] ऊधस् पञ्चमी ङसि । [ऊधन्यम् ] ऊधस् । ऊधसे हितम् । अनेन यप्र० स० → नदेशश्च । सि-अम् ॥छ।। __ शुनो वश्चोदूत् ॥ ७।१।३३ ॥ [शुनः ] श्वन् पञ्चमी ङसि । 'श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उ:' (२।१।१०६) व० → उ० । [वश्च] व प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [उदूत् ] उच्च ऊच्च = उदूत् । प्रथमा सि । अभेदनिर्देशः सर्वादेशार्थः । [शुन्यम्, शून्यम् ] श्वन् । शुने हितं = शुन्यम्, शून्यम् । अनेन यप्र०-वकारस्य "उ-ऊ"देशाश्च । सि-अम् ॥छ।। कम्बलान्नाम्नि ॥ ७।१।३४ ॥ [कम्बलात्] कम्बल पञ्चमी ङसि । ॐ है० प्र० - ऊधसे इदम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy