________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[यवसुरीयम् ] यवानां सुरा = यवसुरा । यवसुरायै इदं = यवसुरीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । सि-अम् ।
[पिष्टसुरीयम्] पिष्टस्य सुरा = पिष्टसुरा । पिष्टसुरायै इदं = पिष्टसुरीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । सि-अम् ॥छ।।
उवर्ण-युगादेर्यः ॥ ७।१।३० ॥ [ उवर्णयुगादेः ] उवर्णश्च युगादिश्च = उवर्णयुगादि, तस्मात् । [यः] य प्रथमा सि । [शङ्कव्यं दारु] शङ्कु । शङ्कवे इदं = शङ्कव्यं दारु । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । दारु ।
[पिचव्यः कासः] पचतीति पिचुः । 'पचेरिच्चातः' (उणा० ७३५) उप्र०-अ० → इ० क्रियते । पिचवे इदं = पिचव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । कर्पासः ।
[परशव्यमयः] परशु । परशवे इदं = परशव्यम् । अयो लोहः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
[कमण्डलव्या मृत्तिका] कमण्डलवे इयं = कमण्डलव्या मृत्तिका । अनेन यप्र० । 'अस्वयम्भुवोऽव्' . (७४/७०) अव् ।
[चरव्यास्तण्डुलाः] चरु । चरवे इमे = चरव्यास्तण्डुलाः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । जस् ।
[सक्तव्या धानाः] सक्तु । सक्तवे इमे = सक्तव्याः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । जस् । युग - [युग्यम् ] युगाय हितं-युगार्थं-युगोऽस्य स्यादिति वा = युग्यम् । अनेन यप्र० । सि-अम् ।
[हविष्यम् ] हविस् । हविसे(षे) हितं-हविरर्थ-हविरस्य स्यादिति वा = हविष्यम् । अनेन यप्र० । 'नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । सि-अम् ।
[सुयुग्यम् ] सुष्ठ युगाय हितं = सुयुग्यम् । अनेन यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[अतियुग्यम् ] अतिशयेन युगाय हितम् = अतियुग्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
'गोः स्वरे यः' (६।१।२७) इत्यनेनैव सिद्धे गोग्रहणं तदन्तार्थम्[सुगव्यम् ] सुष्ठ गवे हितं = सुगव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [अतिगव्यम् ] अतिशयेन गवे हितम् = अतिगव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
'हविरन्न०' (७।१।२९) इत्यतो यप्रत्ययस्यानुवृत्तौ इह यग्रहणं बाधकबाधनार्थमिति कोऽर्थः ? उवर्णान्तादनेन यः प्राप्तः तं बाधित्वा 'चर्मण्यञ्' (७१।४५) प्राप्त इति तद्बाधनार्थः ।
[सनङ्गव्यं चर्म] सनङ्गश्चर्मविकारस्तस्मै इदं = सनङ्गव्यम् । अत्र 'चर्मण्यञ्' (७१।४५) प्राप्तेऽनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । चर्म ॥छ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org