________________
सप्तमाध्यायस्य प्रथमः पादः ॥
हविरन्नभेदा-ऽपूपादेर्यो वा ॥ ७।१।२९ ॥ [हविरन्नभेदाऽपूपादेः ] हविश्च अन्नं च = हविरन्ने, तयोर्भेदः = हविरन्नभेदः । अपूप आदिर्यस्य सः = अपूपादिः । हविरन्नभेदश्च अपूपादिश्च = हविरन्नभेदाऽपूपादि, तस्मात् ।
[यः] य प्रथमा सि । [वा] वा प्रथमा सि ।
[आमिक्ष्यम्, आमिक्षीयम्] हविर्भेदः-श्रि(श)ते क्षीरे तक्रं निक्षेपः आमिक्षा । आमिक्षायै इदं दधि = आमिक्ष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । शृते क्षीरे तक्रं निक्षेप इत्यर्थो वा । एवम्आमिक्षीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[पुरोडाश्याः, पुरोडाशीयास्तण्डुलाः ] पुरोडाशाय इमे = पुरोडाश्याः । अनेन यप्र० । एवम्-पुरोडाशीयाः । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । तण्डुलाः । - [ओदन्याः, ओदनीयास्तण्डुलाः] ओदनाय इमे = ओदन्याः । अनेन यप्र० । एवम्-ओदनीयाः । 'परिणामिनि तदर्थे (७।१।४४) ईयप्र० । तण्डुलाः ।
[कृसर्याः, कृसरीयास्तण्डुलाः] कृसरा । कृसरायै इमे = कसर्याः । अनेन यप्र० । एवम्-कसरीयाः । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । तण्डुलाः । ... [सुर्याः, सुरीयास्तण्डुलाः ] सुरा । सुरायै इमे = सुर्याः । अनेन यप्र० । एवम्-सुरीयाः । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । तण्डुलाः ।
[अपूप्यम्, अपूपीयम् ] अपूपायेदम् = अपूप्यम् । अनेन यप्र० । एवम्-अपूपीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । सि-अम् ।
[तण्डुल्यम्, तण्डुलीयम् ] तण्डुलायेदं = तण्डुल्यम् । अनेन यप्र० । एवम्-तण्डुलीयम् । 'परिणामिनि तदर्थे' (७१।४४) ईयप्र० । सि-अम् ।
[यवापूप्यम्, यवापूपीयम् ] यवानामपूपाः, यवाश्च अपूपाश्चेति वा । यवापूपेभ्य इदं = यवापूप्यम् । अनेन यप्र० । एवम्-यवापूपीयम् । 'परिणामिनि तदर्थे' (७११४४) ईयप्र० । सि-अम् । __ [व्रीहितण्डुल्यम्, व्रीहितण्डुलीयम् ] व्रीहितण्डुलेभ्य इदं = व्रीहितण्डुल्यम् । अनेन यप्र० । एवम्व्रीहितण्डुलीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । सि-अम् ।
[चरव्यास्तण्डुलाः] चरु । चरवे इमे = चरव्यास्तण्डुलाः । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । जस् ।
[सक्तव्या धानाः ] सक्तु । सक्तवे इमे = सक्तव्या धानाः । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । जस् ।
केनचिदाकारसादृश्येनेति कोऽर्थः ? चर्मादौ अपूपाद्याकारा चर्माप्यपूय(प) इत्येवम् । अन्नभेदादन्यस्मिन्नप्यर्थे प्रत्ययो भवति । कोऽयमर्थः ? येऽपूपादिषु पठिता अन्नभेदास्तेषां तदन्तानां विधिर्भवति, अन्नभेदवाचिनां तु अपूपादिष्वपठितानां तदन्तविधिन भवति इति शेषः ।। जम० वृत्तौ - सूरायै इमे = सूर्याः, सूरीयास्तण्डुलाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org