SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कर्षे] कर्ष सप्तमी ङि । [हल्या, हल्यो वा] 'कृषं विलेखने' (५०६) कृष् । कर्षन्त्यस्मिन्निति कर्षः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । हलस्य कर्षः = हल्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । बाहुलकात् पुं-स्त्रीत्वम् । एवम्-हल्यो वा । [द्विहल्या] द्वि-हल । द्वयोर्हलयोः कर्षः = द्विहल्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [त्रिहल्या ] त्रयाणां हलानां कर्षः = त्रिहल्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [परमहल्या] परमं च तद्धलं च = परमहलम् । परमहलस्य कर्षः = परमहल्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [उत्तमहल्या] उत्तमं च तद्धलं च = उत्तमहलम् । उत्तमहलेन कर्षः = उत्तमहल्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । [बहुहल्यः ] ईषदसमाप्तं हलं = बहुहलम् । बहुहलस्य कर्षः = बहुहल्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।। यत्र हलं कृष्टं (गतमित्यर्थः) स मार्गः कर्षः, न तु कर्षे इति पलस्य चतुर्थो भागः परिमाणमिह गृह्यते अनभिधानात् ॥छ। सीतया सङ्गते ॥ ७।१।२७ ॥ [सीतया ] सीता तृतीया टा । अथवा सीता(त)या पञ्चमी ङसि । सूत्रत्वात् । [सङ्गते] सम् अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । सङ्गच्छते स्म = सङ्गतः । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।०११) क्तप्र० , त । 'यमि-रमि-नमि-गमिवनति-तनादेधुटि क्ङिति' (४।२।५५) मलुक्, तस्मिन् । [सीत्यम् ] सीता । सीतया सङ्गतं = सीत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् । [द्विसीत्यम् ] द्वाभ्यां सीताभ्यां सङ्गतं = द्विसीत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् । [त्रिसीत्यम् ] तिसृभिः सीताभिः सङ्गतं = त्रिसीत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् । [परमसीत्यम् ] परमा चासौ सीता च = परमसीता । परमसीतया सङ्गतं = परमसीत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । सि-अम् । यस्येति 'यः' (७।१।१) इत्यधिकारस्य पूर्णोऽवधिः ॥छ।। ईयः ॥७।१२८ ॥ [ईयः] ईय प्रथमा सि । 'सो रुः' (२।१।७२) स० → २० । आ तद इत्यनुवर्तते ॥छा। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy