________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३५३
('यो डायन्') (२।४।५७) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । आमन्त्र्ये सि । 'नित्यदिद्-द्विस्वराऽम्बार्थस्य हूस्वः' (१।४।४३) सिसउं हूस्वः । __ [अभिवादये तुषजकोऽहं भोः, आयुष्मानेधि कुशल्यसि तुषजक !] तुष 'जनैचि प्रादुर्भावे' (१२६५) जन् । तुषाज्जातः = तुषजः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । कुत्सितोऽल्पोऽज्ञातो वा तुषजः = तुषजकः । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७३।३३) कप्प्र० → क । आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक्' (१।४।४४) सिलुक् ।
[अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालि ३] स्थलतीति स्थाली । 'वा ज्वलादि-दु-नी-भू-ग्रहाऽऽस्रोर्णः' (५।१।६२) णप्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अणबेयेकण' (२।४।२०) ङी । आमन्त्र्ये सि । 'नित्यदिद् (१।४।४३) सिसउं हुस्वः ॥छ।।
प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्याऽऽदिदुत्परः ॥ ७।४।१०२ ॥ [प्रश्नाऽर्चाविचारे ] प्रश्नश्च अर्चा च विचारश्च = प्रश्नाऽर्चाविचारम्, तस्मिन् । [च] च प्रथमा सि । [सन्धेयसन्ध्यक्षरस्य] सन्धेयं च तत् सन्ध्यक्षरं च = सन्धेयसन्ध्यक्षरम्, तस्य । [आत् ] आत् प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [इदुत्परः] इच्च उच्च = इदुतौ, इदुतौ परौ यस्मात् सः = इदुत्परः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०।
सन्धेयः सन्धियोग्यः यः क्वचित् स्वरे परे विकारमापद्यते स च प्लुतः, प्रत्यासत्त्या एकारैकारयोरिकारपरः ओकारौकारयोरुकारपरो भवति ।
प्रश्ने - [अगमः ३ पूर्वान् ३ ग्रामा ३ न अग्निभूता ३ इ, पटा ३ उ?] अग्निभूता ३ इ । अग्निभूति इति प्रकृतिः । आमन्त्र्ये सि । 'हुस्वस्य गुणः' (१।४।४१) एकारात् । 'प्रश्ने च प्रतिपदम्' (७।४।९८) इत्यनेन कृते प्लुते एकारस्य अनेन आ प्लुतात् इश्च । पटा ३ उ ? । पटु आमन्त्र्ये सि । 'हुस्वस्य गुणः' (१।४।४१) ओ । 'प्रश्ने च प्रतिपदम्' (७।४।९८) प्लुते कृतेऽनेन ओकारस्य आ प्लुतात् उश्च ।
[अदा ३ स्तस्मा ३ इ, अपचा ३ इ पटा ३ उ, अहौषी ३ रग्ना ३ उ?] तस्मै 'प्रश्ने च प्रतिपदम्' (७।४।९८) प्लुतः । अनेन ए(ऐ)कारस्य आ प्लुतात् इश्च । 'हुंक् दाना-ऽदनयोः' (११३०) हु । अद्यतनी सि । “सिजद्यतन्याम्'
५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् । 'अड् धातोरादि०' (४।४।२९) अट् । 'सिचः(चि) परस्मै समानस्याऽङिति' (४।३।४४) वृद्धिः औ । 'सो रुः' (२।१।७२) स० → र० । 'प्रश्ने च प्रतिपदम्' (७।४।९८) इत्यनेन सर्वत्र प्लुतः । अग्नि सप्तमी ङि । 'ङिडौँ' (१।४।२५) ङि० → डौ० → औ० । 'डित्यन्त्यस्वरादेः' (२।१२११४) इलुक् । 'प्रश्ने च प्रतिपदम्' (७४।९८) प्लुतः ३ । अनेन औकारस्य आ प्लुतात् उश्च ।
अर्चा = पूजा तस्याम् - [शोभन: खल्वसि अग्निभूता ३ इ, पटा ३ उ] अग्निभूति आमन्त्र्ये सि । 'हुस्वस्य गुणः' (१।४।४१) गु० ए । पटु आमन्त्र्ये सि । 'हुस्वस्य गुणः' (१।४।४१) गु० ओ । एकारस्य ओकारस्य च अनेन आ प्लुतात् इश्च उश्च ।
विचारे - [वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके] अगारं-गृहं विद्यतेऽस्य = अगारिकः । 'अतोऽनेकस्वरात्' (७।२।६) इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सह अगारिकेण वर्तते इति सागारिकम्,
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org