________________
३५४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
तस्मिन् । सागारिका ३ इ । सागारिक प्रकृतिः । सप्तमी ङि । 'अवर्णस्ये०' (१।२।६) ए । 'विचारे पूर्वस्य' (७।४।९५) इत्यनेन प्लुतः ३ । एकारस्य अनेन आ प्लुतात् इश्च । अगारेण चरति = आगारिकः । 'चरति' (६।४।११) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । न आगारिकम् = अनागारिकम्, तस्मिन् । 'कृत्यस्य वा' (२।२।८८) इति कर्त्तरि षष्ठी । निर्ग्रन्थेनेत्यर्थः । प्रत्यभिवादे - [आयुष्मानेधि अग्निभूता ३ इ पटा ३ उ] अग्निभूति - पटु । आमन्त्र्ये सि । 'हूस्वस्य गुणः'
- ओ । 'अस्त्री-शूद्रे प्रत्यभिवादे०' (७।४।१०१) प्लुतः ३ । एकारस्य ओकारस्य च अनेन आ प्लुतात् इ: - उश्च ।
[आयुष्मन्तौ भूयास्तां देवदत्तजिनदत्ता ३ उ] देवदत्त-जिनदत्त । प्रथमा औ । 'ऐदौत्सन्ध्यक्षरैः' (१।२।१२) औ । 'अस्त्री-शूद्रे प्रत्यभिवादे०' (७।४।१०१) प्लुतः ३ । अनेन औकारस्य आ प्लुतात् उश्च ।
[आगच्छ भो अग्नि( इन्द्र)भूते ३] इन्द्रभूते ३ । 'दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत्' (७।४।९९) प्लुतः ३ ।
[कच्चि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३?] कच्चि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३? । 'प्रश्ने च प्रतिपदम्' (७४।९८) इत्यनेन प्लुतः । कन्या औ । 'औता' (१।४।२०) ए । प्रश्नद्योतकोऽव्ययः कच्चित् शब्दः अग्रेतनेषु 'प्रश्ने च प्रतिपदम्' (७।४।९८) प्लुतः ३ ।
[अगमः ३ पूर्वा ३ न् ग्रामा ३ नहो भद्रकाऽसि गौः ३] गौ ३ भावात् सन्ध्यभावः । 'दूरादामन्त्र्यस्य०' (७।४।९९) प्लुतः ३ ।
[आयुष्मानेधि भो ३] आयुष्मानेधि भो ३ । अत्र 'अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्र-नाम्नो वा' (७।४।१०१) प्लुतः ।
[भद्रिकासि कुमारि ३] कुमारी आमन्त्र्ये सि । 'नित्यदिद् द्विस्वराऽम्बार्थस्य हुस्वः' (१।४।४३) सिसउं हुस्वः । . 'दूरादामन्त्र्यस्य०' (७।४।९९) प्लुतः ३ । [अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३] अत्र 'प्रश्ने च प्रतिपदम्' (७।४।९८) इत्यनेन प्लुतः ।।छ।।
तयोय्वौं स्वरे संहितायाम् ॥ ७।४।१०३ ॥ [तयोः] तद् षष्ठी ओस् । [य्वौ] य च व् च = य्वौ । औ । [स्वरे ] स्वर सप्तमी ङि। [संहितायाम्] संहिता सप्तमी ङि । अविरामेत्यर्थः ।
[अगमः ३ अग्निभूता ३ यत्रागच्छ] अम (३९२)-द्रम (३९३)-हम्म (३९४) मीमृ (३९५)-'गम्लं गतौ' (३९६) गम् । अद्यतनी सि । 'लदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । 'प्रश्ने च प्रतिपदम्' (७।४।९८) प्लुतः । 'प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्यादिदुत्परः' (७४।१०२) इत्यादिना एकारस्य आ प्लुतात् इश्च इति कृते अनेन इकारस्य यत्वम् ।
[अगमः ३ अग्निभूता ३ यिहागच्छ] अम (३९२)-द्रम (३९३)-हम्म (३९४) मीमृ (३९५)-'गम्लं गतौ' (३९६) गम् । अद्यतनी सि । 'लुदिद्-धुतादि०' (३।४।६४) अप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org