________________
३५२
[ हेहैषु ] हेश्च हैश्च = हेहायस्तेषु ।
[ एषाम् ] इदम् षष्ठी आम् ।
[ एव ] एव प्रथमा सि ।
दूरार्थद्योतकौ यौ हैशब्दौ कौ च तौ यौ तदामन्त्रणे वर्त्तते यत्र २ हे - है अस्ति तत्र २ अनेनैव प्लुतः, पक्षे न, हेहैष्वित्यवधारणस्य विषयार्थम् । एषामिति स्थानिनिर्देशार्थं बहुवचनं ह इ = हे, ह ए है इति लाक्षणिकयोरपि परिग्रहार्थम् । एवकारोऽन्यस्य प्लुतस्य व्युदासार्थः || ||
=
अस्त्री-शूद्रे प्रत्यभिवादे भो - गोत्र - नाम्नो वा ॥ ७|४|१०१ ॥
स्त्रीशूद्रम्, न स्त्रीशूद्रम् = अस्त्रीशूद्रम्, तस्मिन् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ अस्त्रीशूद्रे ] स्त्री च शूद्रश्च
[ प्रत्यभिवादे ] प्रति अभिवादनं
प्रत्यभिवादः, तस्मिन् ।
[ भोगोत्रनाम्नः ] भोस् च गोत्रं च नाम च = भोगोत्रनाम, तस्य ।
'अवर्ण- भो-भगो-ऽघोर्लुगसन्धिः ' (१।३।२२) रलुक् ।
[वा ] वा प्रथमा सि ।
यदभिवाद्यमानो गुरुः कुशलानुयोगेनाशिषा वा यद् युक्तं वाक्यं प्रयुङ्क्ते स प्रत्यभिवादः ।
[ अभिवादये देवदत्तोऽहं भोः ३ अभिवादये देवदत्तोऽहं भोः ] अभि 'वदिण् परिभाषणे' (१९६३) वद् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० ए । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः ।
=
हे - हैष्वेषामेव ॥ ७।४।१०० ॥
=
[ आयुष्मानेधि भोः ३, आयुष्मानेधि भोः ] असक् भवे (भुवि ) (११०२) अस् । पञ्चमी हि । 'शासस् - हन: शाध्येधि- जहि' (४।२।८४) एधि । भोस् अनेन प्लुतो विकल्पेन ।
[ अभिवादये गार्ग्योऽहं भोः !, कुशल्यसि गार्ग्य ३ !, कुशल्यसि गार्ग्य !] अभिवादये गार्ग्योऽहं भोः कुशल्यसि गार्ग्य आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक्' (१।४।४४) सिलुक् । अनेन विकल्पेन प्लुतः ।
राजन्यविशोरपि गोत्रत्वमेव ।
Jain Education International
[ अभिवादयेऽहमिन्द्रवर्मा भोः, आयुष्मानेधीन्द्रवर्म ३ न् !, इन्द्रवर्मन् !] अभिवादयेऽहमिन्द्रध (व) र्मा भोः, आयुष्मानेधीन्द्रध (व)र्म ३ न् ! । अनेन प्लुतो विकल्पेन ।
[ अभिवादये इन्द्रपलितोऽहं भोः, आयुष्मानेधीन्द्रपालित ३ ! इन्द्रपालित !] अभिवादये इन्द्रपाति (लि) तोऽहं भोः, आयुष्मानेधीन्द्रपालित ३ ! । आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलुक् । अनेन प्लुतो विकल्पेन । [ अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३ !, देवदत्त !] अभिवादये देवदत्तोऽहं भोः, आयुष्मानेधि देवदत्त ३ ! । आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक् (१।४।४४) सिलुक् । अनेन विकल्पेन प्लुतः ।
नाम -
[ अभिवादये गार्ग्यहं भोः, आयुष्मती भव गार्गि ! ] गर्गस्यापत्यं वृद्धं स्त्री = गार्गी । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२०)
For Personal & Private Use Only
www.jainelibrary.org