SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३५१ [गुरुः] गुरु प्रथमा सि । [वा] वा प्रथमा सि । [एकः] एक प्रथमा सि । [अनन्त्यः] न अन्त्योऽनन्त्यः । प्रथमा सि । [अपि] अपि प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [लनृत् ] न ऋत् = अनृत् । लुश्चासौ अनृच्च = लनृत् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । यत्र प्राकृतत्वात् प्रयत्नात् प्रयत्नविशेषे आश्रीयमाणे संदेहो भवति किमयं श्रोष्यति नवेति तद् दूरम्, गुरोरनृत इति विशेषत्वेन । [आगच्छ भो इ ३ न्द्रभूते ! आगच्छ भो इन्द्रभू ३ ते !] आगच्छ भो इ ३ न्द्रभूते !, आगच्छ भो इन्द्रभू ३ ते !! [आगच्छ भो न ३ षभ !, आगच्छ भो नृषभ !] आगच्छ भो न ३ षभ ! द्वितीये न प्लुतः । एवमग्रेऽपि । महाविभाषयैव प्लुतविकल्पे सिद्ध वाग्रहणं न विकल्पार्थं किन्त्वन्य(न्त्य)प्लुतेन सह गुरोः असमावेशार्थम् । तेन यदा अन्त्यस्य प्लुतस्तदान्त्यस्यैव न तु गुरोः, यदा तु गुरोस्तदा गुरोरेव न त्वन्त्यस्येत्यर्थः, तेन क्ल ३ प्तशिख ३ इति न भवति । [शृणु देवदत्त !] 'श्रृंट् श्रवणे' (१२९६) श्रु । पञ्चमी हि । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'श्रौतिकृवु-धिवु-पा-घ्रा-ध्मा-स्था-म्ना-दाम-दृश्यत्ति-शद-सदः श०' (४।२।१०८) "शु"देशः । 'असंयोगादोः' (४।२।८६) हिलुक् । देवदत्त आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलुक् । गुरोरिति किम् ? अनन्त्यस्य लघोर्मा भूत् । एक इति किम् ? अनेकस्य गुरोर्योगपद्येन मा भूत् । अनन्त्योऽपीति किम् ?. अन्त्यस्यैव मा भूत् । लकारग्रहणमनूदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋतः प्रतिषेधे लकारस्य कः प्रसङ्गः ? उच्यते - इदमेव ज्ञापकमवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति तेन - - [अचीक्लपत्] 'कृपू(पौ)ङ् सामर्थ्य' (९५९) कृप् । कल्पमानं कल्पन्तं वा प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ऋवर्णस्य' (४।२।३७) इत्यनेन ऋकारस्यापि मध्ये लकारः क्रियते गुणबाधनार्थम् । अद्यतनी दि० → त्० । 'णि-श्रि-द्रु-उ-कमः कर्तरि ङः' (३।४।५८) ङप्र० → अ । 'द्विर्धातुः परोक्षा-डे प्राक् तु०' (४।१।१) "कृप्"द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-ङश्च-ज्' (४।१।४६) क० → च० । 'असमानलोपे०' (४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् इत्यादौ ऋवर्णकार्य लवर्णस्यापि सिद्धं भवति । [आगच्छ भोः कर्तृ ३ !, आगच्छ भोः कर्तृ !] आगच्छ भोः कर्तृ आमन्त्र्ये सि । 'अनतो लुप्' (१।४।५९) लुप् । अनेन प्लुतो विकल्पेन । [ देवदत्त ! अहो आगच्छ ] देवदत्त आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक् (१।४।४४) सिलुक् । अहो आगच्छ अत्र आमन्त्र्यस्यान्तेऽभावात् न प्लुतः । [शोभनः खल्वसि माणवक ३ ! शोभन: खल्वसि माणवक !] शोभनः खल्वसि माणवक आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलुक् । अभिपूजितेऽर्थेऽनेनैव विकल्पेन प्लुतः ॥छा। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy