SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ ओ३म्, अग्निमीले पुरोहितम् ] ओम् अग्नि द्वितीया अम् । 'ईडिक् स्तुतौ' (१११४) ईड् । वर्त्त० ए । स्तौमि इत्यर्थः किम्भूतं अग्नि पुरो धीयते । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त । 'धागः' (४|४|१५ ) "हि" देश:, यद्वा पुरोहितं किम्भूतं अग्नि तत्प्रायत्वात् ॥छ|| हे प्रश्नाख्याने ॥ ७।४।९७ ॥ ३५० [हे:] हि षष्ठी ङस् । [ प्रश्नाख्याने] प्रश्नस्याख्यानं = प्रश्नाख्यानम्, तस्मिन् । पृष्टस्य प्रतिवचनं प्रश्नाख्यानम् । [अकार्षीः कटं देवदत्त !? अकार्षं हि ३, अकार्षं हि] 'डुकृंग् करणे' (८८८) कृ । अद्यतनी सि । 'सिजद्यतन्याम्’ (३।४।५३) सिच् । 'सिच: ( चि) परस्मै समानस्याऽङिति' (४।३।४४ ) वृद्धिः आर् । 'सः सिजस्तेर्दि-स्यो:' ( ४|३|६५) ईत् । 'अड् धातोरा०' (४।४।२९) अट् । देवदत्त आमन्त्र्ये सि । अकार्षं - अद्यतनी अम् । हि प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अनेन हि स्वरात् परः प्लुतः । [ अलावी: केदारं देवदत्त !? अलाविषं हि ३, अलाविषं हि ] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी सि । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'स: सिजस्तेर्दि - स्यो:' ( ४|३|६५ ) ईत् । 'सिच: ( चि) परस्मै०' (४।३।४४) वृद्धिः औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातो०' (४।४।२९) अट् । अलाविष- अद्यतनी अम् । हि प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अनेन हि स्वरात् परः प्लुतः । [ अकार्षीः कटं देवदत्त !? करोमि ननु ] अकार्षीः कटं देवदत्त !? करोमि ननु । 'ननौ पृष्टोक्तौ सद्वत्' (५।२।१७) उत्तरेण सिद्धे नियमार्थं वचनं हे: प्रश्नाख्याने एव 'हे: प्रश्नाख्याने' (७/४/९७) वाक्यस्य स्वरेष्वन्त्य एव प्लुत इति च ॥छ || प्रश्ने च प्रतिपदम् ॥ ७।४।९८ ॥ [प्रश्ने] प्रश्न सप्तमी ङि । [च] च प्रथमा सि । [ प्रतिपदम्] पदं प्रतिपत्ति: (प्रति प्रति ) । ङस् - ङिर्वा । यद्वा 'क्रियाविशेषणात् ' (२।२।४१) अम् । प्रश्ने - [अगम: ३ पूर्वा ३ न् ग्रामा ३ न् देवदत्त ३ !? अगमः पूर्वान् ग्रामान् देवदत्त !? ] अम (३९२ ) -द्रम (३९३ ) - हम्म (३९४) - मीमृ (३९५)-'गम्लृ गतौ' (३९६) गम् । अद्यतनी सि । 'लृदिद् - द्युतादि - पुष्यादेः परस्मै' (३।४।६४) अप्र० → अ । 'अड् धातोरादि० ' ( ४।४।२९) अट् । अनेन स्वरात् परः प्लुतः सर्वत्र पदे २ पूर्वा ३ न् ग्रामा ३ न् देवदत्त ३ ? आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक् (१।४।४४) सिलुक् । पक्षे न प्लुतः । प्रश्नाख्याने - [ अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् जिनदत्त ३ !? अगमं पूर्वान् ग्रामान् जिनदत्त !? ] अम (३९२ ) - द्रम (३९३) हम्म (३९४) मीमृ (३९५) - 'गम्लृ गतौ' (३९६) गम् । अद्यतनी अम् । 'लृदिद्द्युतादि-पुष्यादेः परस्मै' ( ३।४।६४) अप्र० अ । 'अड् धातोरादि०' (४।४।२९) अट् । अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् जिनदत्त ३ ? आमन्त्र्ये सि । 'अदेत: स्यमोर्लुक्' (१।४।४४) सिलुक् । [ दूरात् ] दूर पञ्चमी ङसि । [ आमन्त्र्यस्य ] आमन्त्र्य षष्ठी ङस् । Jain Education International - दूरादामन्त्र्यस्य गुरुर्वैको ऽनन्त्योऽपि लनृत् ॥ ७।४।९९ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy