SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३४९ [कर्णवेष्टकांश्चित्कारय] कर्णवेष्टक द्वितीया अम्(शस्) । चित् 'डुकंग करणे' (८८८) कृ । कुर्वन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । कर्णवेष्टकानेवेत्यर्थः ॥छ।। __प्रतिश्रवण-निगृह्यानुयोगे ॥ ७।४।९४ ॥ [प्रतिश्रवणनिगृह्यानुयोगे] प्रतिश्रवणं च निगृह्यानुयोगश्च = प्रतिश्रवणनिगृह्यानुयोगम्, तस्मिन् । प्रतिश्रवणं परोक्तस्याभ्युपगमः, स्वयं प्रतिज्ञानं, श्रवणाभिमुख्यं च । निगृह्य स्वमतात्प्रच्याव्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः, उपालम्भ इति यावत् । अभ्युपगमे - [गां मे देहि भोः, हन्त ते ददामि ३, हन्त ते ददामि ] गां मे देहि भोः, हन्त ते ददामि । अनेन त्यादिपरः प्लुतः । स्वयं प्रतिज्ञाने - [नित्यः शब्दो भवितुमर्हति ३, नित्यः शब्दो भवितुमर्हति] नित्यः शब्दः, भू । भवनं = भवितुम् । 'शक-धृष-ज्ञा-रभ-लभ-सहा-ऽर्ह-ग्ला-घटाऽस्ति समर्थाऽर्थे च तुम्' (५।४।९०) तुम् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । अर्हति ३ । अनेन त्यादिपरः प्लुतः । श्रवणाभिमुख्ये - [भो देवदत्त ! किं मार्ष ३, किं मार्ष] भो देवदत्त ! किं मार्ष ३ । अनेन प्लतः । मार्ष इति श्रवणाभिमुख्यद्योतको निपातः । .. निगृह्यानुयोगे - [अद्य श्राद्धमित्यात्थ ३, अद्य श्राद्धमित्यात्थ ] अद्य श्रद्धा प्रयोजनमस्य = श्राद्धः । 'चूडादिभ्योऽण्' (६।४।११९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६) आलुक् । अम् । 'बॅग्क व्यक्तायां वाचि' (११२५) ब्रू । वर्त० सिव्-तिव् । 'ब्रूगः पञ्चानां पञ्चाऽऽहश्च' (४।२।११८) सिव्स्थाने थव्देशः, ब्रूस्थाने आह च । 'नहाहोर्ध-तौ' (२।११८५) ह० → त० । अनेन प्लुतः । अद्य श्राद्धेति वादीत्युक्ता स्वमतात् प्रच्याव्य एवमुपालभ्यते ॥छ।। विचारे पूर्वस्य ॥ ७४९५ ॥ [विचारे ] विचार सप्तमी ङि । [पूर्वस्य] पूर्व षष्ठी ङस् । किमिदं स्यात्, किमिदमिति निरूपणं विचारः, संशय इति यावत् । [अहिर्नु ३ रज्जुर्नु, अर्हिर्नु रज्जुर्नु ] अहि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । नु प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अनेन प्लुतः । एवमग्रेऽपि ॥छ। ओमः प्रारम्भे ॥ ७।४।९६ ॥ [ओमः] ओम् षष्ठी ङस् । [प्रारम्भे ] प्रारम्भ सप्तमी ङि । प्रमाणा(णामा)दिनादे(:) आदिपदात् स्तुतिर्गृह्यते । अभ्याय(दा)नं अङ्गीकारः ।। [ओ ३ म् ऋषभं पवित्रम्, ओमृषभं पवित्रम् ] ओम् प्रथमा सि । 'अव्ययस्य' (३३२७) सिलुप् । ऋषभं पवित्रं । अनेन प्लुतः । प्रणम इत्यर्थे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy