________________
३४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अङ्गाधीष्व मोदकं ते दास्यामि] अङ्ग 'अधि इंफू अध्ययने' (११०४) इ । पञ्चमी स्व । 'समानानां०' (१२।१) दीर्घः । नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । मोदक द्वितीया अम् । ते-तव दास्यामि ॥छ।।
क्षिया-ऽऽशी:-प्रेषे ॥ ७।४।९२ ॥ [क्षियाऽऽशी:प्रेषे] 'क्षि क्षये' (१०) क्षि । क्षयणं = क्षिया । 'भिदादयः' (५।३।१०८) अप्र० → अ । ' 'संयोगात्' (२।१५२) इय् । 'आत्' (२।४।१८) आप्प्र० → आ । क्षिया च आशीश्च प्रैषश्च = क्षियाऽऽशी:प्रैषम. तस्मिन् ।
क्षिया आचारभेषः । आशीः प्रार्थनाविशेषः । प्रेषोऽसत्कारपूर्विका व्यापारणा ।
क्षियायाम् - [स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति, स्वयं ह रथेन याति उपाध्यायं पदार्ति गमयति] स्वयं-आत्मना । ह इति निन्द्यो(घ) । रथेन याति ३ अनेन प्लुतो विकल्पेन । पाद 'अत सातत्यगमने' (२७९) . अत् । पादाभ्यामतति-गच्छति = पदातिः, तम् । 'पादाच्चात्यजिभ्याम्' (उणा० ६२०) इति णिद् इप्र० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । 'पदः पादस्या-ऽऽज्याति-गोपहते' (३।२।९५) पद० ।
[स्वयं ह ओदनं भुङ्क्ते ३ उपाध्यायं सक्तून् पाययति, स्वयं ह ओदनं भुङ्क्ते उपाध्यायं सक्तून् पाययति] सक्तु द्वितीया शस् । 'पां पाने' (२) पा । पिबन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'आत ऐः कृऔ' ... (४।३।५३) आ० → ऐ० । ('पा-शा०-छा०' (४।२।२०) योऽन्तः) । 'एदैतोऽयाय्' (१।२।२३) आय् । वर्तः तिव् । 'कर्तर्यन०' (३।४।७१) शव । 'नामिनो०' (४।३।१) ग० ए। 'एदैतोऽयाय' (१२।२३) अय ।
आशिषि - [सिद्धान्तमध्येषीष्ठाः ३ व्याकरणं च तात ! सिद्धान्तमध्येषीष्ठाः व्याकरणं च तात !] सिद्धान्त द्वितीया अम् । अधि 'इंक अध्ययने' (११०४) इ । आशी: सीष्ठाः । 'नामिनो०' (४।३।१) गु० ए । 'नाम्यन्तस कवर्गात्०' (२।३।१५) षत्वम् । अनेन प्लुतः । तात ! कोमलामन्त्रणे पुत्र इत्यर्थः ।
[पुत्रांश्च लप्सीष्ठाः ३ धनं च तात ! पुत्रांश्च लप्सीष्ठाः धनं च तात !] पुत्र द्वितीया शस् । 'डुलभिष् प्राप्तौ' (७८६) लभ् । आशी: सीष्ठाः । 'अघोषे प्रथमोऽशिष्टः' (११३५०) भ० → प० ।
पैषे - [कटं च कुरु ३ ग्रामं च गच्छ ३, कटं च कुरु ग्रामं च गच्छ] कटं च कुरु ३ अनेन प्लुतः ॥छ।।
चितीवार्थे ॥ ७।४।९३ ॥
[चिति] चित् सप्तमी ङि। [इवार्थे ] इव इत्येतस्यार्थः = इवार्थस्तस्मिन् ।
[अग्निश्चिद्भाया ३ त् अग्निश्चिद्भायात्] अग्नि प्रथमा सि । चित् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अग्निरिव भायात् । 'भांक दीप्तौ' (१०६१) भा । सप्तमी यात् । अनेन त्यादिस्वरात्परप्लुतः विकल्पेन ।
[राजा चिद्भूया ३ त् राजा चिद्भूयात् ] राजा चित् 'बॅग्क व्यक्तायां वाचि' (११२५) ब्रू । सप्तमी यात् । अनेन त्यादिस्वरात्परप्लुतो विकल्पेन । अग्निरिव राजेवेत्यर्थः ।
चितीति रूपसत्ताश्रयणादप्रयोगे न भवति । [अग्निर्माणवको भायात् ] अग्निर्माणवको भायात् । अग्निरिव इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org