________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३४७
[देवदत्त ! गामभ्याज शुक्लां दण्डेन ] देवदत्त आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक् (१।४।४४) लुक् । गो द्वितीया अम् । 'आ अम्-शसोऽता' (१।४।७५) आ । अभि-आपूर्व० 'अजू(जौ)प् व्यक्ति-म्रक्षण-गतिषु' (१४८८) अज् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतः प्रत्ययाल्लुक' (४।२।८५) हिलुक् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । व्यञ्जनान्तस्यापि यथा स्यात् । व्यञ्जनान्तस्यापि शब्दस्य स्वरेष्वन्त्यः प्लुतो भवतीत्यर्थः ॥छ।।
भर्त्सने पर्यायेण ॥ ७।४।९० ॥ [भर्त्सने] 'भत्सिण तर्जने' (१८४५) भर्त्स । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । भयंते = भर्त्सनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । 'णेरनिटि' (४।३।८३) णिच्लुक्, तस्मिन् ।
[पर्यायेण] परि 'अयि गतौ' (७९०) अय् (इंण्क् गतौ' (१०७४) इ) । पर्ययणं = पर्यायः । 'परेः क्रमे' (५।३।७६) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः (नामिनोऽकलि०' (४।३।५१) वृद्धिः) । तेन = पर्यायेण । __ भर्त्सनं कोपेन दण्डाविष्करणम्, तत्र 'सम्मत्यसूया०' (७।४।८९) इत्यादिना द्विर्वचनं सिद्धमेव, प्लुतार्थ आरम्भः ।
[चौर ३ चौर ! चौर चौर ३ ! चौर चौर ! दस्यो ३ दस्यो ! दस्यो दस्यो ३ ! दस्यो दस्यो ! घातयिष्यामि त्वाम्, बन्धयिष्यामि त्वाम्] दस्यु आमन्त्र्ये सि । 'हुस्वस्य गुणः' (१।४।४१) गुण:-सिसओ ओ । 'सम्मत्यसूया०' (७।४।८९) इत्यनेन द्विः । अनेन प्रथमपदे प्लुतः, द्वितीये तृतीये तु न क्वापि । 'हनंक हिंसा-गत्योः' (११००) हन् । घ्नन्तं प्रयुङ्क्ते। 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग् । 'ञ्णिति घात्' (४।३।१००) "घात्"देशः । भविष्यन्ती स्यामि । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'बन्धंश् बन्धने' (१५५२) बन्ध् । बध्नन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग् । भविष्यन्ती स्यामि । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ॥छ।।
___त्यादेः साकाङ्क्षस्याङ्गेन ॥ ७।४।९१ ॥ [त्यादेः] तिरादिर्यस्य सः = त्यादिः, तस्य ।
[साकाङ्क्षस्य] आपूर्व० 'काक्षु काक्षायाम्' (५८०) काश् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । आकाङ्क्षणम् = आकाङ्क्षा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । सह आकाङ्क्षया वर्तते = साकाङ्क्षस्तस्य ।
[अङ्गेन] अङ्ग तृतीया टा ।
अतो द्विर्वचनं निर्व(व)त्तम्, वाक्यस्य स्वरेष्वन्त्यः प्लुतो वेत्यनुवर्तते, भर्त्सन इति च ।
[अङ्ग ! कूज ३, अङ्ग ! कूज, इदानीं ज्ञास्यसि जाल्म !] अङ्ग इति कोमलामन्त्रणे । क्षीज (१५०) - 'कूज . अव्यक्ते शब्दे' (१५१) कूज् । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'अतः प्रत्ययाल्लुक्' (४।२८५) हिलुक् । अनेन प्लुतः । भर्त्सने इदानीं ज्ञास्यसि जाल्म !।
[अङ्ग ! व्याहर ३, अङ्ग ! व्याहर, इदानीं ज्ञास्यसि जाल्म !] अङ्ग प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । वि-आपर्व० 'हंग् हरणे' (८८५) ह । पञ्चमी हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० अर् । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलुक् । अनेन प्लुतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org