________________
३४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[परिपरि त्रिगर्तेभ्यो वृष्टो मेघः, परि त्रिगर्तेभ्यो वृष्टो मेघः] परि प्रथमा सि । 'अव्ययस्य' (३२१७) सिलुप् । अनेन द्विः विकल्पेन । परि त्रिगर्तेभ्यः ।
[परित्रिगर्त वृष्टो मेघः] परित्रिगत प्रथमा सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्या:' (३।२।२) अम् । । 'समानादमोऽतः' (१।४।४६) अलुक् ॥छा।
सम्मत्यसूया-कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः ॥ ७।४।८९ ॥ [सम्मत्यसूयाकोपकुत्सनेषु] सम्मतिश्च असूया च कोपश्च कुत्सनं च = सम्मत्यसूयाकोपकुत्सनानि, तेषु । । [आद्यामन्त्र्यम् ] आदि च तद् आमन्त्र्यं च = आद्यामन्त्र्यम् । सि-अम् । [आदौ ] आदि सप्तमी ङि । [स्वरेषु ] स्वर सप्तमी सुप् । [अन्त्यश्च] अन्त्य प्रथमा सि । च प्रथमा सि । [प्लुतः] प्लुत प्रथमा सि ।।
कार्येष्वाभिमत्यं सम्मतिः पूजनं वा । परगुणासहनमसूया । कोप: क्रोधः । निन्दा कुत्सा । एते प्रयोक्तृधर्मा नाभिधेयधर्माः । सम्मत्यसूयाकोपकुत्सनेषु इति बहुवचनात् द्विवचने विकल्पो न सम्बध्यते, किन्तु प्लुते विकल्पो ज्ञेय इति । भावार्थः ।
[माणवक ३ माणवक ! माणवक माणवक ! अभिरूपक ३ अभिरूपक ! अभिरूपक अभिरूपक ! शोभन: स्वल्वसि] माणवक आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक् (१।४।४४) सिलुक् । अनेन द्विवचनं प्लुतश्च विकल्पेन ।
एकमात्रो भवेद् हुस्वो, द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो, व्यञ्जनं चार्द्धमात्रिकम् ॥१॥ शोभन: खल्वसि ।
असूयायाम् - [माणवक ३ माणवक ! माणवक माणवक ! अभिरूपक ३ अभिरूपक ! अभिरूपक अभिरूपक ! रिक्तं ते आभिरूप्यम्] माणवक आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक् (१।४।४४) सिलुक् । अनेन द्विवचनं प्लुतश्च विकल्पेन । रिक्तं प्रसारं-मूल्यं, ते-तव, आभिरूप्यं-पाण्डित्यम् ।
कोपे - [माणवक ३ माणवक ! माणवक माणवक ! अविनीतक ३ अविनीतक ! अविनीतक अविनीतक ! इदानीं ज्ञास्यसि जाल्म !] माणवक आमन्त्र्ये सि । 'अदेतः स्यमोर्लुक् (१।४।४४) सिलुक् । अनेन द्विवचनं प्लुतश्च विकल्पेन । इदानीं ज्ञास्यसि जाल्म ! निकृष्टः ।
कुत्सने - [शक्तिके ३ शक्तिके! शक्तिके शक्तिके ! यष्टिके ३ यष्टिके ! यष्टिके यष्टिके ! रिक्ता ते शक्तिः] 'शक्लृट् शक्तौ' (१३००) शक् । शक्नोति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । कुत्सिता शक्ता = शक्तिका । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प्र० → क । 'अस्याऽयत्-तत्' (२।४।१११) इ । आमन्त्र्ये सि । 'एदापः' (१४।४२) ए । अनेन द्विः प्लुतश्च विकल्पेन । यष्टेस्तुल्या = यष्टिका । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ' (७१।१०८) कप्र० । 'आत्' (२।४।१८) आपप्र० → आ । आमन्त्र्ये सि । 'एदापः' (१।४।४२) ए । अनेन द्विः प्लुतश्च विकल्पेन । रिक्ता-असारा, ते-तव शक्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org