SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३४५ काल-गौरादित्वात् ङी । काल्येव = कालिका । 'यावादिभ्यः कः' (७।३।१५) कप्र० । 'झ्यादीदूतः के' (२।४।१०४) हुस्वः । प्रथमा सि । अनेन द्विः-पूर्वपदे सिलुप् च, इत्यत्र पूरणप्रत्ययान्तत्वात् कोपान्त्याच्च 'तद्धिताऽककोपान्त्यपूरण्याख्याः ' (३।२।५४) इत्यादिना पुंवद्भावो न भवति ॥छ।। नवा गुणः सदृशे रित् ॥ ७।४।८६ ॥ [नवा] नवा प्रथमा सि । [गुणः ] गुण प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [सदृशे] सदृश सप्तमी ङि । [रित्] रित् प्रथमा सि । आदौ प्लुप् च स्यात्, सा च रित् । रित्करणं प्रतिषिद्धस्यापि पुंवद्भावस्य 'रिति' (३।२।५८) इत्यनेन सूत्रेण विधानार्थम् । [शुक्लशुक्लं रूपम् ] शुक्ल सि-अम् । अनेन द्विः-आदौ स्यादेः प्लुप् च । रूप सि-अम् । एवमग्रेऽपि । [कालककालिका] काल 'भाज-गोण-नाग-स्थल-कुण्ड-काल०' (२।४।३०) ङी । काल्येव = कालिका । 'कालात्' (७।३।१९) कप्र० । 'यादीदूतः के' (२।४।१०४) हुस्वः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । प्रथमा सि । अनेन द्विः-आदौ सि प्लुप् च । 'रिति' (३।२।५८) पुंवत् । शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते । विकल्पपक्षे जातीयरपि स्यात् । [शुक्लजातीयः] शुक्लः प्रकारोऽस्य = शुक्लजातीयः । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० → जातीय । [पटुजातीयः ] पटुः प्रकारोऽस्य = पटुजातीय: । 'प्रकारे जातीयर्' (७।२।७५) जातीयप्र० → जातीय । [अग्निर्माणवकः] अग्निर्माणवकः । सदा गुणवाची यः स इह गुणशब्दो गृह्यते, अयं तूपमानात् प्राग्द्रव्यवाची, पश्चात्तु तैक्ष्ण्यजाड्यादिगुणवाचीति न भवति ॥छ। प्रिय-सुखं चाकृच्छ्रे ॥ ७।४।८७ ॥ [प्रियसुखम् ] प्रियश्च सुखश्च(खं च) = प्रियसुखम् । [च] च प्रथमा सि । [अकृच्छ्रे ] न कृच्छ्रम् = अकृच्छ्रम्, तस्मिन् । [प्रियप्रियेण ददाति, प्रियेण ददाति] प्रिय तृतीया टा । 'टा-ङसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्येवर्णादिनैदोदरल्' (१२।६) ए । अनेन वा द्विः । आदौ टा प्लुप् च । प्रियेण ददाति । [सुखसुखेन अधीते, सुखेन अधीते ] सुख तृतीया टा । 'टा-ङसोरिन-स्यौ' (१।४।५) इन । 'अवर्णस्ये०' • (१।२।६) ए । अनेन वा द्विः । आदौ टा प्लुप् च, पक्षे सुखेन अधीते । अक्लेशेन अधीते इत्यर्थः । चकारः चानुकृष्टत्वादुत्तरत्र नानुवर्तते । 'प्लुप् चादावेकस्य स्यादेः' (७।४।८१) इत्यस्यानुकर्षणार्थः ॥छ।। वाक्यस्य परिर्वर्जने ॥ ७।४।८८ ॥ [वाक्यस्य] वाक्य षष्ठी ङस् । [परिर्वर्जने] परि प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । वर्जन सप्तमी ङि। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy