SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पैतृकम् ] पितुरागतं = पैतृकम् । 'ऋत इकण्' (६।३।१५२) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । अनेन इकस्य इलुक् । [नैषादकर्षुकः ] निषादका भवः = नैषादकर्षुकः । 'उवर्णादिकण्' (६।३।३९) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । अनेन इकस्य इलुक् । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । [शावरजम्बुकः] शवरजम्ब्वां भवः = शावरजम्बुक: । 'उवर्णादिकण्' (६।३।३९) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । अनेन इकस्य इलुक् । 'झ्यादीदूतः के' (२।४।१०४) ह्रस्वः । [ दौष्कः ] दोस् । दोर्ध्या तरति = दौष्कः । 'तरति' (६।४।९) इकण्प्र० → इकं । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । अनेन इकस्य इलुक् । 'नामिनस्तयोः षः' (२।३।८) रस्य षत्वम् । - [सार्पिष्कः ] सर्पिः पण्यमस्य = सार्पिष्कः । 'तदस्य पण्यम्' (६।४।५४) इकण्प्र० → इक । 'वृद्धिः स्वरे०' . (७।४।१) वृद्धिः । अनेन इकस्य इलुक् । 'नामिनस्तयोः षः' (२।३।८) रस्य षत्वम् । [बाहिष्कः] बहिस् । बहिः प्रयोजनमस्य = बाहिष्कः । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः । अनेन इकस्य इलुक् । 'नामिनस्तयोः षः' (२।३।८) रस्य षत्वम् । [धानुष्कः] धनुस् । धनुः प्रहरणमस्य = धानुष्कः । 'प्रहरणम्' (६४६२) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन इकस्य इलुक् । 'नामिनस्तयोः षः' (२।३।८) रस्य षत्वम् । [याजुष्कः] यजुस् । यजुः प्रयोजनमस्य = याजुष्कः । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन इकस्य इलुक् । 'नामिनस्तयोः षः' (२२३८) रस्य षत्वम् । [औदश्वित्कः ] उदश्विता संस्कृत ओदनः = औदश्वित्कः । 'संस्कृते' (६।४।३) इकण्प्र० → इक । 'वृद्धिः स्वरे०' . (७।४।१) वृद्धिः औ । अनेन इकस्य इलुक् । [शाकृत्कः ] शकृता संसृष्टः = शाकृत्कः । 'संसृष्टे' (६।४।५) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन इकस्य इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । __ [याकृत्कः ] यकृता संसृष्टः = याकृत्कः । 'संसृष्टे' (६४५) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन इकस्य इलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [शाश्वतिकम् ] शश्वद्भवं = शाश्वतिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । [आकस्मिकम् ] अकस्माद्भवम् = आकस्मिकम् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७।४।६५) अन्त्यस्वरादिलोपः । प्रत्यययोरिसुसोर्ग्रहणादिह न भवति - __ [आशिषिकः] आपूर्वकः 'शासूक कि) इच्छायाम्' (१११८) शास् । आशासनमाशीः । 'क्रुत्संपदादि०' (५।३।११४) क्विप्र० । 'आङः' (४।४।१२०) आ० → इ० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । आशिषा चरति = आशिषिकः । 'चरति' (६।४।११) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy