________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३३५
[माण्डव्यः] मण्डोरपत्यं वृद्धं = माण्डव्यः। 'गर्गादेर्य' (६।११४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (१।२।२१) अव् ॥छ।।
अस्वयम्भुवोऽव् ॥ ७।४७० ॥ [अस्वयम्भुवः] न स्वयम्भू(:) = अस्वयम्भू(:), तस्य । [अव्] अव् प्रथमा सि ।।
[औपगवः] उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन अव । ___ [कापटवः ] कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन अव् । __ [बाभ्रव्यः ] बभ्रोरपत्यं वृद्धं = बाभ्रव्यः । 'मधु-बभ्रोर्ब्राह्मण-कौशिके' (६।१।४३) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन अव् । __ [माण्डव्यः] मण्डोरपत्यं वृद्धं = माण्डव्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन अव् ।
[शङ्कव्यं दारु ] शङ्कवे इदं = शङ्कव्यम् । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । अनेन अव् । दारु ।। [पिचव्यः कर्पासः ] पिचुभ्यो हितः = पिचव्यः कर्पासः । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । अनेन अव् ।
[बाहविः ] बाहोरपत्यं = बाहविः । 'बाह्यादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन अव् ।
[औपबिन्दविः ] उपबिन्दोरपत्यम् = औपबिन्दविः । 'बाह्यदिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन अव् ।
[स्वायम्भुवः] स्वयं भवतीति स्वयम्भूः । शीलार्थे 'दिद्युद्-ददृद्-जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-तू-ज्वायतस्तूकटप्रू-परिव्राट्-भ्राजादयः क्विप्' (५।२।८३) क्विप्प्र० । अन्यथा शं-सं-स्वयं-वि-प्राद्-भुवो डुः (५।२८४) स्यात् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । स्वयम्भुवोऽपत्यं = स्वायम्भुवः । 'ङसोऽपत्ये' (६।०२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'धातोरिवर्णो०' (२।१।५०) उव् ॥छ।।
ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ॥ ७।४७१ ॥ [ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त] शश्वच्च अकस्माच्च = शश्वदकस्मात्, न शश्वदकस्मात् = अशश्वदकस्मात्, अशश्वदकस्माच्च तत् त च = अशश्वदकस्मात्त, ऋवर्णश्च उवर्णश्च दोश्च इस् च उस् च अशश्वदकस्मात्तश्च = ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त ।
[इकस्य ] इक षष्ठी ङस् । [इतः ] इत् षष्ठी ङस् । [लुक्] लुक् प्रथमा सि । [मातृकम्] मातुरागतं = मातृकम् । 'ऋत इकण्' (६।३।१५२) इकण्प्र० → इक । अनेन इकस्य इलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org