SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ श्रायं हविः] श्रीर्देवताऽस्य तत् = श्रायं हविः । 'देवता' (६।२।१०१) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । शुक्लतमः । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० → तम । [ शुक्लतमः ] बहूनां मध्ये प्रकृष्टः शुक्लः ऊर्णायुः । 'ऊर्णा - ऽहं- शुभमो युस्' (७।२।१७) युस्प्र० → [ ऊर्णायुः ] ऊर्णा अस्यास्ति 'सो रुः' (२।१।७२) स०र० । ३३४ = = [ शुचितरः ] द्वयोर्मध्ये प्रकृष्टः शुचिः = शुचितरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । [ वृक्षे ] वृक्ष सप्तमी ङि । [ अग्न्योः ] अग्नि सप्तमी ओस् ॥छ । अकद्रू-पाण्ड्वोरुवर्णस्यैये ॥ ७४६९ ॥ [ अकद्रूपाण्ड्वोः ] कदूश्च पाण्डुश्च = कद्रूपाण्डू, न कद्रूपाण्डू = अकद्रूपाण्डू, तयोः = षष्ठी ओस् । [ उवर्णस्य ] उवर्ण षष्ठी ङस् । [ ए ] एय सप्तमी ङि । [ कामण्डलेयः ] कमण्डल्वा अपत्यं = कामण्डलेयः । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । अनेन ऊलुक् । यु । प्रथमा सि । [ माद्रबाहेयः ] मद्रबाहोरपत्यं माद्रबाहेयः । देवी विवक्षायां 'ङ्याप्त्यूङः ' (६।१।७०) एयण्प्र० एय । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः आ । अनेन ऊलुक् । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० अकद्रूपाण्ड्वोः । [ शैतिबाहेयः ] शितिबाह्वा अपत्यं = शैतिबाहेय: । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय । वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । अनेन ऊलुक् । = Jain Education International [ जाम्बेयः ] जम्ब्वा अपत्यं = जाम्बेयः । 'द्विस्वरादनद्या: ' ( ६।१।७१ ) एयञ्प्र० एय । 'वृद्धिः स्वरे० ' (७।४।१) वृद्धिः आ । अनेन ऊलुक् । "अलाबु जम्बू०" इत्यादि इत्युक्तं लिङ्गानुशासने । [स्त्री-क्लीबलिङ्गप्रकरणे] एय । 'वृद्धिः स्वरे० ' [ लैखाभ्रेयः] लेखाभ्रुवोऽपत्यं = लैखाभ्रेयः । 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० (७|४|१) वृद्धिः ऐ । 'भ्रू-नो:' ( २/१/५३) इत्यनेन प्राप्तं उवादेशं बाध्य परत्वात् अनेन ऊलुक् । एय । गोत्वा [ काद्रवेयः ] कवा अपत्यं काद्रवेय: । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय बाधकः 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७७४।७०) अव् । [ पाण्डवेय: ] प (पा) ण्डोरपत्यं = पाण्डवेयः । ‘शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । For Personal & Private Use Only [ वैमात्रेयः ] विमात्रोरपत्यं = वैमात्रेयः । 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'इवर्णादेरस्वे० ' (१।२।२१) रत्वम् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy