________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३३३
. [एकसप्ततः] एकसप्ततेः पूरणः = एकसप्ततः । 'संख्यापूरणे डट्' (७१।१५५) डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् ।
[एकाशीतः ] एकाशीतेः पूरणः = एकाशीतः । ‘संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् ।
[विंशतौ] विंशति सप्तम्येकवचनं ङि । 'ङिडौँ' (१।४।२५) ङि० → डौ० → औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् ॥छ।।
अवर्णेवर्णस्य ॥ ७।४।६८ ॥ [अवर्णेवर्णस्य ] अवर्णश्च इवर्णश्च = अवर्णेवर्णम्, तस्य । अवर्णान्तस्येत्युक्ते सकलस्यापि प्राप्नोतीत्याह-निर्दिश्यमानत्वादवर्णेवर्णयोरेव लुग भवतीत्यर्थः ।
[ दाक्षिः ] दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । अनेन अलुक् ।।
[प्लाक्षिः ] प्लक्षस्यापत्यं = प्लाक्षिः । 'अत इज्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन अलुक् । __ [चौडिः] चूडाया अपत्यं = चौडिः । 'बाह्लादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन आलुक् ।
[बालाकिः] बलाकाया अपत्यं = बालाकिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । अनेन आलुक् ।
[नाभेयः] नाभेरपत्यं = नाभेयः । प्रथमतीर्थकरनाम । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन इलुक् ।
[सांकृत्यः ] संकृतेरपत्यं = सांकृत्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन इलुक् ।
[दौलेयः] दुल्या अपत्यं = दौलेयः । 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (४१) वृद्धिः औ । अनेन ईलुक् ।
[रौहिणेयः ] रोहिण्या अपत्यं = रौहिणेयः । 'ङ्याप्त्यूङः' (६।१७०) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन ईलुक् । . [वात्सप्रेयः] वत्स 'प्रींग्श् तृप्ति-कान्त्योः' (१५१०) प्री । वत्सं प्रीणातीति वत्सप्री । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१२३७) क्विप्लुक् । तस्या अपत्यं = वात्सप्रेयः । अन्यथा स्त्रीविहितप्रत्ययो न स्यात् । 'चतुष्पाट्य एयज्' (६।१।८३) एयप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । अनेन ईलुक् । अत्र प्रथम 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) इति यत्वं प्राप्नोति, तद् बाधकं 'धातोरिवर्णोवर्णस्येयुक्०' (२।१।५०) इत्यादि, तस्यापि बाधकं 'क्विब्वृत्तेरसुधियस्तौ' (२।१।५८) इत्यादि, तस्यापि बाधकं 'संयोगात्' (२।१।५२) इति, ततः परत्वात् 'अवर्णेवर्णस्य' (७।४।६८) इति प्रवर्त्तते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org