________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३३१
[औपरिष्टः] उपरिष्टात् मांडणीयइ । उपरिष्टादागतः = औपरिष्टः । 'तत आगते' (६।३।१४९) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । अनेन आत्लुक् ।
[पारतः] परत: मांडणीयइ । परत आगतः = पारतः । 'तत आगते' (६।३।१४९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन अस्लुक् ।
[ऐकैकश्यम् ] एकमेकं ददाति = एकैकशः । एकशब्दस्य अमन्तस्य 'वीप्सायाम्' (७।४।८०) इत्यनेन द्वित्वम् । 'प्लुप् चादावेकस्य स्यादेः' (७।४।८१) इत्यनेन अमो लुप् । 'बह्वल्पार्थात् कारकादिष्टाऽनिष्टे प्शस्' (७।२।१५०) शस्प्र० → शस् । एकैकशो भावः = ऐकैकश्यम् । 'पतिराजान्तगुणाङ्ग' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । अनेन अस्लुक् ।
प्रायोग्रहणं प्रयोगानुसरणार्थम, तेनेह न भवति[आरातीयः] आरात् भवः = आरातीयः । 'दोरीयः' (६।३।३२) ईयप्र० ।
[शाश्वतिकः, शाश्वतः] शश्वत् भवः = शाश्वतिकः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) इत्यनेन अण्प्राप्नोति, 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७४/७१) इत्यत्र शश्वत् वचनात् 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इकं । एवम्-शाश्वतः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ।
[पार्थक्यम् ] पृथक् भावः = पार्थक्यम् । 'पतिराजान्तगुणाङ्गः' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । सि-अम् ।
[कंयुः] कम् मण्ड्यते । कमस्यास्तीति कंयुः । 'कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम्' (७।२।१८) युस्प्र० । [शंयुः] शम् मण्ड्यते । शमस्यास्तीति शंयुः । 'कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम्' (७।२।१८) युस्प्र० ।
[अहंयुः] अहम् मण्ड्यते । अहमस्यास्तीति अहंयुः । 'ऊर्णा-ऽहं-शुभमो युस्' (७।२।१७) युस्प्र० → यु । सर्वत्र सकारोऽनुबन्धार्थः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
अनीनादट्यह्नोऽतः ॥ ७।४।६६ ॥ [अनीनादटि ] ईनश्च अच्च अट् च = ईनादट् । न ईनादट् = अनीनादट् । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् । [अह्नः] अहन् षष्ठी ङस् । 'अनोऽस्य' (२।१।१०८) अलुक् । [अतः] अत् षष्ठी ङस् ।
[आह्नम् ] अहन् मण्ड्य ते । अह्नां समूहः = आह्नम् । 'श्वादिभ्योऽञ्' (६।२।२६) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । अनेन अनः पूर्वं अकारस्य लुक् ।
[आह्निकम् ] अह्रा निवृत्तम्-आह्निकम् । 'निर्वृत्ते' (६।४।१०५) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) 'वृद्धिः । अनेन अनः पूर्व अकारस्य लुक् ।
[व्यहीनः] द्वाभ्यामहोभ्यां निर्वृत्तः, द्वाभ्यामहोभ्यां भृतोऽधीष्टो वा, द्वे अहनी भूतो भावी वा = व्यहीनः । 'रात्र्यहःसंवत्सराच्च द्विगोर्वा' (६।४।११०) ईनप्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् ।
[यहीण:] त्रिभिरहोभिर्निर्वृत्तः, त्रिभिरहोभिभृतोऽधीष्टो वा, त्रीण्यहानि भूतो भावी वा = त्र्यहीण: । 'रात्र्यह:संवत्सराच्च द्विगोर्वा' (६।४।११०) ईनप्र० । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org