________________
३३०
[वा ] वा प्रथमा सि ।
[ अश्मन: ] अश्मन् षष्ठी ङस् ।
[ विकारे ] विकार सप्तमी ङि ।
[ आश्मः, आश्मनो वा ] अश्मनो विकार: = आश्मः आश्मनो वा । 'विकारे' (६।२।३०) अणूप्र० अ । अनेन विकल्पेन अन्लुक् । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
वाऽश्मनो विकारे || ७|४|६३ ॥
[ आश्मनो मन्त्रः ] अश्मा देवताऽस्य = आश्मनो मन्त्रः । 'देवता' ( ६ | २|१०१) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । प्रथमा सि । 'सो रुः ' (२१/७२ ) स०र० ॥छ ।
चर्म - शुनः कोश - सङ्कोचे ॥ ७४६४ ॥
चर्मश्व, तस्य ।
[ चर्मशुनः ] चर्म च श्वा च =
[ कोशसङ्कोचे ] कोशश्च सङ्कोचश्च
कोशसङ्कोचम्, तस्मिन् ।
=
[ चार्म:, चार्मणः ] चर्मणो विकारः कोशः चार्म: । 'विकारे' (६।२।३०) अण्प्र० → (७|४|१) वृद्धिः । अनेन अन्लुक् । कोशादन्यत्र - चार्मणः ।
=
[ शौवः सङ्कोचः, शौवनः ] श्वन् । शुनोऽयं शौवः सङ्कोचः । ' तस्येदम् ' ( ६ | ३ | १६०) अण्प्र० अ । 'द्वारादेः' (७।४।६) वात् प्राक् औ । अनेन अन्लुक् । अन्यत्र - शौवनः ।
[ शौवं मांसम्, शौवं पुच्छम् ] शुनो विकारोऽवयवो वा = शौवं मांसं पुच्छं वा । 'हेमाऽऽदिभ्योऽञ्' (६।२।४५) अञ्प्र० → अ । 'द्वारादेः' (७|४|६) वात् प्राक् औ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । सि-अम् ||
प्रायो ऽव्ययस्य ॥ ७।४।६५ ॥
[प्रायस् ] प्रायस् 'क्रियाविशेषणात् ' (२।२।४१) अम् । 'अव्ययस्य' ( ३।२।७) लुप् ।
[अव्ययस्य ] अव्यय षष्ठी ङस् ।
[ सौवः] स्वर् । स्वर्भवः = सौवः । ‘भवे' (६।३।१२३) अण्प्र० अ । 'द्वारादेः' (७४)६) वात् प्राक् औ । अनेन अर्लुक् ।
[ बाह्यः, बाहीकः ] बहिस् । बहिर्भवः = बाह्य:, बाहीक: । 'बहिषष्टीकण् च' (६।१।१६ ) ञ्यप्र० य - टीकण्प्र० → ईक । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । अनेन इस्लुक् ।
Jain Education International
अ । 'वृद्धिः स्वरे० '
[ सायंप्रातिकः ] सायंप्रातर् मण्ड्यते । सायंप्रातर्भवः सायंप्रतिकः । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० इक । अनेन अर्लुक् ।
=
=
[ पौनःपुनिकः ] पुनः पुनर्भवः पौनःपुनिकः । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० → स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः औ । अनेन अलुक् ।
अनभिधानादव्ययलक्षणस्तनट् 'सायं-चिरं प्राह्णे - प्रगे ऽव्ययात्' (६।३।८८) इत्यनेन प्राप्तः तनट्प्र० न भवति ।
[ पौनःपुन्यम् ] पुनःपुनरित्येतस्य भावः = पौनःपुन्यम् । 'पतिराजान्तगुणा० ' ( ७|१|६०) ट्यण्प्र०य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ । अनेन अलुक् ।
For Personal & Private Use Only
इक । 'वृद्धिः
www.jainelibrary.org