________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३२९
[कौथुमाः] कुथुम-मृगाजिनमस्यास्ति = कुथुमी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् 1 कुथुमिना प्रोक्तं वेदं विदन्त्यधीयते वा = कौथुमाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'प्रोक्तात्' (६।२।१२९) द्वितीयअणो लुप् । अनेन इन्लुक् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । जस् ।
[तैतलाः ] तितलस्यापत्यं = तैतलः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे.' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अथवा तितलेन प्रोक्तम् । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । तैतलोऽस्यास्ति = तैतली । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । तैतलि विदन्त्यधीयते वा । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । अनेन इन्लुक् । जस् ।
[जाजलाः] जजलस्यापत्यं = जाजलः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अथवा जजलेन प्रोक्तम् । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । जाजलोऽस्यास्ति = जाजली । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जाजलि विदन्त्यधीयते वा । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । अनेन इन्लुक् । जस् ।
[लाङ्गलाः] लाङ्गलमस्यास्ति = लाङ्गली । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । लाङ्गलि विदन्त्यधीयते वा । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । अनेन इन्लुक् । जस् ।
तैतली-जाजली-लाङ्गली चाचार्याः तैः कृतो ग्रन्थोऽप्युपचारात् तच्छब्देनोच्यते ।
[शैखण्डाः ] शिखण्डिन इमेऽपत्यानि वा = शैखण्डाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । अनेन इन्लुक् । जस् ।
[शैलालाः] शिलालिन इमेऽपत्यानि वा = शैलालाः । 'तस्येदम्' (६।३।१६०) अणप्र० → अ । 'ङसोऽपत्ये' (६१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः ऐ । अनेन इन्लुक् । जस् ।
[साब्रह्मचाराः] समाने ब्रह्मणि चरतीति सब्रह्मचारी । 'सब्रह्मचारी' (३।२।१५०) इन्प्र०-समानस्य सभावः । सब्रह्मचारिण इमेऽपत्यानि वा = साब्रह्मचाराः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । अनेन इन्लुक् । जस् ।
[पैठसर्पाः ] पीठ 'सृप्लं गतौ' (३४१) सृप् । पीठेन सर्पतीत्येवंशीलः = पीठसपी । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० → अर् । 'दिर्ह-स्वरस्यानु नवा' (१।३।३१) द्वित्वम् । पीठसप्पिण इमेऽपत्यानि वा = पैठसर्पाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । ''वृद्धिः स्वरे०' (७।४।१) वृद्धि: ऐ । अनेन इन्लुक् । जस् ।
[सौकरसदमाः] सूकरसदमन इमेऽपत्यानि वा = सौकरसदमाः । 'तस्येदम' (६।३।१६०) अणप्र० + अ । 'ङसोऽपत्ये' (६१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन अन्लुक् । जस् ।
[सौपर्वाः] सुपर्वण इमेऽपत्यानि वा = सौपर्वाः । 'तस्येदम्' (६।३।१६०) अणप्र० + अ । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: औ । अनेन अन्लुक् । जस् ॥छा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org