________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
पूर्वेण सिद्धे जातावनपत्ये एवेति नियमार्थं वचनम्, तेनोत्तरसूत्रेणापत्ये लुग् न भवति ।
[ ब्राह्मणः ] ब्रह्मणोऽपत्यं = ब्राह्मणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।
[ब्राह्मो नारदः] ब्रह्मणोऽपत्यं = ब्राह्मो नारदः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्मणो मनोऽपत्ये' (७४/५९) अन्लुक् ॥छा।
अवर्मणो मनोऽपत्ये ॥ ७४५९ ॥ [अवर्मणः] न वर्मा = अवर्मा, तस्य = अवर्मणः । 'नबत्' (३।२।१२५) न० → अ० । 'र-षुवर्णान्नों ण एकपदेऽनन्त्यस्या०' (२।३।६३) णत्वम् ।
[मनः] मन् षष्ठी ङस् । [अपत्ये ] अपत्य सप्तमी ङि ।
[सौषामः ] शोभनं साम = सुषाम । “निर्दुस्सोः सेध-सन्धि-साम्नाम्' (२।३।३१) षत्वम् । सुषाम्नोऽपत्यं = सौषामः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन अन्लुक् ।
[माद्रसामः ] मद्रं साम यस्य = मद्रसाम । मद्रसाम्नोऽपत्यं = माद्रसामः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन अन्लुक् । 1 [भाद्रसामः] भद्रं साम यस्य = भद्रसाम । भद्रसाम्नोऽपत्यं = भाद्रसामः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । अनेन अन्लुक् ।
[चाक्रवर्मणः] चक्रं वर्म यस्य = चक्रवर्म । चक्रवर्मणोऽपत्यं = चाक्रवर्मणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → . अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।
[सौत्वनः ] पूर्ववत् । [याज्वनः] पूर्ववत् ।
[चार्मणो रथः] चर्मणा छत्रश्चार्मणो रथः । तेन च्छो रथे' (६।२।१३१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ।।
हितनाम्नो वा ॥ ७।४।६० ॥ [हितनाम्नः] हितनामन् षष्ठी ङस् । 'अनोऽस्य' (२।१।१०८) अलुक् । [वा] वा प्रथमा सि ।
[हैतनामनः, हैतनामः ] हितनाम्नोऽपत्यं = हैतनामनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । अनेन वा अन्लुक् । एवम्-हैतनामः ।
[हैतनामनः ] हितनाम्नोऽयं = हैतनामनः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ ॥छ।
नोऽपदस्य तद्धिते ॥ ७।४।६१ ॥ [नोऽपदस्य] न् षष्ठी ङस् । न पदम् = अपदम्, तस्य = अपदस्य । 'नजत्' (३।२।१२५) न० → अ० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org