________________
३२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । __ [गौणिनम् ] गुणिन इदं = गौणिनम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: औ।
r
[स्त्राग्विणम् ] स्रग्विण इदं = स्राग्विणम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् ।
[मैधावः] मेधा अस्यास्ति = मेधावी । 'अस्-तपो-माया-मेधा-स्रजो विन्' (७२।४७) विन्प्र० । मेधाविनोऽपत्यं = मैधावः । 'ङसोऽपत्ये' (६१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् ।
[गार्भम्] गर्भिणां समूहः = गार्भम् । 'श्वादिभ्योऽज्' (६।२।२६) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् ।
[दाण्डम् ] दण्डिनां समूहः = दाण्डम् । 'श्वादिभ्योऽज्' (६।२।२६) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् ।
[चाक्रम्] चक्रिणां समूहः = चाक्रम् । 'श्वादिभ्योऽञ्' (६।२।२६) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१). वृद्धिः । 'नोऽपदस्य तद्धिते' (७/४/६१) इन्लुक् ॥छ।।
उक्ष्णो लुक् ॥ ७।४।५६ ॥ [उक्ष्णः ] उक्षन् षष्ठी ङस् । 'अनोऽस्य' (२।१।१०८) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [लुक्] लुक् प्रथमा सि ।
[औक्षं पदम् ] उक्ष्ण इदम् = औक्षं पदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । अनेन अन्लुक् । सि-अम् ।
[औक्षणः ] उक्ष्णोऽपत्यमौक्ष्णः । 'उसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४|१) वृद्धिः औ । 'षादि-हन्-धृतराज्ञोऽणि' (२।१।११०) अलुक् ॥छ।।
ब्रह्मणः ॥ ७४५७ ॥ [ब्रह्मणः ] ब्रह्मन् षष्ठी ङस् ।
[ब्राह्ममस्त्रम् ] ब्रह्मण इदं = ब्राह्ममस्त्रम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन अन्लुक् ।
[ब्राह्मो मन्त्रः] ब्रह्मणोऽयं = ब्राह्मो मन्त्रः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । अनेन अन्लुक् । योगविभाग उत्तरार्थः ॥छ।
जातौ ॥ ७।४।५८ ॥ [जातौ] जाति सप्तमी ङि।
[ब्राह्मी ओषधिः] ब्रह्मण इयं = ब्राह्मी ओषधिः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । अनेन अन्लुक् । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org