SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३२५ [प्राकारमर्दिः] प्राकारमर्दिनोऽपत्यं = प्राकारमर्दिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० + इ । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लुक् । अनपत्ये उत्तरेण सिद्धत्वादपत्यार्थोऽयमारम्भः ॥छ।। गाथि-विदथि-केशि-पणि-गणिनः ॥ ७।४।५४ ॥ [गाथिविदथिकेशिपणिगणिनः ] गाथी च विदथी च केशी च पणी च गणी च = तत्, तस्य । [गाथिनः ] गाथा अस्यास्ति = गाथी । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । गाथिनोऽपत्यं = गाथिनः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । [वैदथिनः ] विदथा अस्यास्ति = विदथी । "शिखादिभ्य इन्' (७।२।४) इनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । विदथिनोऽपत्यं = वैदथिनः । 'ङसोऽपत्ये' (६१०२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: ऐ । गाथ-विदथौ छन्दविशेषौ । [कैशिनः] केशा अस्य सन्ति = केशी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । केशिनोऽपत्यं = कैशिनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ। [पाणिनः ] पणोऽस्यास्ति = पणी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । . पणिनोऽपत्यं = पाणिनः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । [गाणिनः] गणोऽस्यास्ति = गणी । 'अतोऽनेकस्वरात्' (७।२।६) इनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गणिनोऽपत्यं = गाणिनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ॥छ।। अनपत्ये ॥ ७।४।५५ ॥ [अनपत्ये] न अपत्यम् = अनपत्यम्, तस्मिन् । [सांकूटिनं वर्त्तते] सम् 'कूटण दाहे' (१८५९) कूट । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । समन्तात् टिनम् । 'अभिव्याप्तौ भावेऽन-जिन्' (५।३।९०) जिन्प्र० → इन् । 'नित्यं ब-जिनोऽण्' (७।३।५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । [सांराविणम् ] टुक्षु (१०८४) - 'रु शब्दे' (१०८५) रु, सम्पूर्व० । समन्तात् रावः = सांराविणम् । 'अभिव्याप्ती भावेऽन-जिन्' (५।३।९०) जिन्प्र० → इन् । 'नित्यं ब-जिनोऽण्' (७३।५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । [साम्मार्जिनम्] सम् 'मृजौक् शुद्धौ' (१०९७) मृज् । समन्तात् मार्जनं = साम्मार्जिनम् । 'अभिव्याप्तौ भावेऽन-जिन्' (५।३।९०) जिन्प्र० → इन् । 'नित्यं ब-जिनोऽण्' (७।३।५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । [गाभिणम्] गर्भोऽस्त्यासां = गर्भिण्यः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी । गर्भिणीनां समूहः = गाभिणम् । 'भिक्षाऽऽदेः' (६।२।१०) अण्प्र० → अ । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवत्-ङीगतेत्यर्थः । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy