SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पार्वणः ] पर्वणि भवः = पार्वणः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः । 'र-घृवर्णान्नो ण०' (२।३।६३) णत्वम् ।। [कार्मः ] कर्म शीलमस्य = कार्मः । 'अस्थाच्छवाऽऽदेरञ्' (६।४।६०) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । [ कार्मुकम् ] कर्मणे शक्तं = कार्मुकम् । 'योग-कर्मभ्यां योको' (६।४।९५) उकञ्प्र० → उक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक ॥छ।। संयोगादिनः ॥ ७।४५३ ॥ [संयोगात् ] संयोग पञ्चमी ङसि । [इनः ] इन् षष्ठी ङस् । [शाङ्खिनः] शङ्खोऽस्यास्ति = शङ्खी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शङ्खिनोऽपत्यं = शाङ्खिनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । । [चाक्रिणः] चक्रमस्यास्ति = चक्री । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । . चक्रिणोऽपत्यं = चाक्रिणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-वर्णानो ण.' (२।३।६३) णत्वम् । [वाज्रिणः ] वज्रमस्यास्ति = वज्री । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वज्रिणोऽपत्यं = वाज्रिणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [स्राग्विणः] स्रग् विद्यते यस्य = स्रग्वी । 'अस् तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विन्प्र० । 'स्रग्विणोऽपत्यं = स्राग्विणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-वर्णान्नो ण' (२।३।६३) णत्वम् । [माद्रिणः] मद्रमस्यास्ति = मद्री । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । मद्रिणोऽपत्यं = माद्रिणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।। [भाद्रिणः] भद्रमस्यास्ति = भद्री । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । भद्रिणोऽपत्यं = भाद्रिणः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० २ अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [मैधावः] मेधा अस्यास्ति = मेधावी । 'अस् तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विनप्र० । मेधाविनोऽपत्यं = मैधावः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक्। [मायावः] माया अस्यास्ति = मायावी । 'अस्-तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विन्प्र० । मायाविनोऽपत्यं = मायाव: । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy