________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
अनोऽट्ये-ये ॥ ७।४।५१ ॥
[ अनोऽट्येये ] अन् षष्ठी ङस् । न ट्योऽट्यस्तस्मिन् । य सप्तमी ङि ।
[ सामन्यः ] सामनि साधुः
= सामन्यः । 'तत्र साधौ' (७|१|१५) यप्र० ।
[ वेमन्यः ] वेमनि साधुः
वेमन्यः । ' तत्र साधौ' (७|१|१५) यप्र० ।
[ मूर्धन्यः ] मूर्धनि भवः = मूर्धन्यः । दिगादि - देहांशाद् य:' ( ६ |३|१२४) यप्र० ।
[ताक्षण्यः] तक्ष्णोऽपत्यं = ताक्षण्यः । 'कुर्वादेर्व्यः' (६।१।१००) ञ्यप्र० → य । 'र- षृवर्णान्नो ण एकपदे ऽनन्त्यस्या - ऽल-च-ट- तवर्ग-श- सान्तरे' (२।३।६३ ) णत्वम् ।
अट्य इति वचनात् सानुबन्धेऽपि प्रतिषेधः ।
=
[ छत्र्यः] छत्रिन् । छत्रिषु साधुः = छत्र्यः । 'तत्र साधौ' (७|१|१५ ) यप्र० । 'नोऽपदस्य तद्धिते' (७|४।६१) इन्लुक् । [राज्यम् ] राज्ञो भावः कर्म वा = राज्यम् । 'पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ' (७|१|६०) ट्यण्प्र० → य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'नोपदस्य तद्धिते' (७|४|६१) अन्लुक् ।
[ दौरात्म्यम् ] दुरात्मनो भावः = दौरात्म्यम् । 'पतिराजा०' (७|१|६०) ट्यण्प्र०य । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः औ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् ।
३२३
[ परमराजः ] परमश्चासौ राजा च = परमराजः । 'राजन् - सखे : ' (७|३|१०६) अट्समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् ।
[ द्विमूर्धः ] द्वौ मूर्धानौ यस्य = द्विमूर्धः । द्वि-त्रेर्मूर्ध्वो वा' (७|३|१२७) टः समासान्तः अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् ॥छ ।
अणि ।। ७।४।५२ ॥
[ अणि ] अण् सप्तमी ङि ।
सौत्वनः ।
[ सौत्वनः ] बुंगट् अभिषवे (१२८६) षु । ' षः सोऽष्ट्यै०' (२।३।९८) सु । सुतवान् = सुत्वा । 'सु-यजोङ्खनिप्' (५|१|१७२) ङ्वनिप्प्र० वन् । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । सुत्वनोऽपत्यं 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ ।
Jain Education International
=
[ याज्वनः ] ‘यजीं देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । इष्टवान् = यज्वा । ‘सु-यजोङ्क्षनिप्’ (५।१।१७२) ङ्वनिप्प्र ० -> वन् । यज्वनोऽपत्यं | = याज्वनः । 'ङसोऽपत्ये ' ( ६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७७४।१)
वृद्धिः ।
[ सामन: ] साम देवताऽस्य = सामनः । 'देवता' (६।२।१०१) अण्प्र० अ ।
[ वैमन: ] वेमा देवताऽस्य = वैमन: । 'देवता' (६।२।१०१) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । [ कार्मणम् ] सन्दिष्टं कर्म = कार्मणम् । 'कर्मणः सन्दिष्टे' (७/२/१६७) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । 'र- षृवर्णान्नो ण०' (२|३|६३ ) णत्वम् ।
For Personal & Private Use Only
www.jainelibrary.org