SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [आयनौ] आयनि सप्तमी ङि । [वाशिनायनिः] 'वशक् कान्तौ' (११०१) वश् । वष्टीत्येवंशीलः = वाशी । “णिन् चाऽऽवश्यकाऽधमये' (५।४।३६) णिन्प्र० → इन् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । वाशिनोऽपत्यं = वाशिनायनिः । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ॥छा। एये जिह्माशिनः ॥ ७।४।४७ ॥ [एये ] एय सप्तमी ङि । [जिह्याशिनः ] जिह्माशिन् षष्ठी ङस् । [जैह्याशिनेयः ] जिलाशिनोऽपत्यं = जैह्माशिनेयः । 'शुभ्राऽऽदिभ्यः' (६।१।७२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ ॥छ।। ईनेऽध्वा-ऽऽत्मनोः ॥ ७।४।४८ ॥ [ईने] ईन सप्तमी ङि । [अध्वाऽऽत्मनोः] अध्वा च आत्मा च = अध्वाऽऽत्मानौ, तयोः = अध्वाऽऽत्मनोः । षष्ठी ओस् । .. [अध्वनीनः ] अध्वन् । अध्वानमलङ्गामी = अध्वनीनः । 'अध्वानं येनौ' (७।१।१०३) ईनप्र० । [आत्मनीनः] आत्मने हितः = आत्मनीनः । 'भोगोत्तरपदा-ऽऽत्मभ्यामीनः' (७।१।४०) ईनप्र० । [प्राध्वम् ] प्रगतमध्वानं = प्राध्वम् । 'उपसर्गादध्वनः' (७।३।७९) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । सि-अम् । [अध्यात्मम् ] आत्मन्यधि = अध्यात्मम् । 'अनः' (७।३।८८) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' : (७४।६१) अन्लुक् । सि-अम् ॥छा। इकण्यथर्वणः ॥ ७४।४९ ॥ [इकणि] इकण् सप्तमी ङि । [अथर्वणः ] अथर्वन् षष्ठी ङस् । ‘र-वर्णान्नो ण०' (२।३।६३) णत्वम् । [आथर्वणिकः] अथर्वाणं वेत्त्यधीते वा = आथर्वणिकः । 'न्यायादेरिकण' (६।२।११८) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ।। . यूनोऽके ॥ ७।४।५० ॥ [यूनोऽके] युवन् षष्ठी ङस् । 'श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः' (२।१।१०६) व० → उ० । 'समानानां०' (१।२।१) दीर्घः । अक सप्तमी ङि । [ यौवनिका] यूनो भावः = यौवनिका । 'चौ(चो)रादेः' (७।१।७३) अकप्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । [यौविकम् ] युवा प्रयोजनमस्य = यौविकम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् ॥छ। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy