________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३२१
[स्रुचयति ] स्रुच् विद्यते यस्य = स्रुग्वान् । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपा०' (२।१।९४) म० → व० । स्रुग्वन्तमाचष्टे = स्रुचयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७४।३२) मतलप । वर्तः तिव । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । __ [स्रुचिष्ठः, स्रुचीयान्] अयमेषामतिशयेन स्रुग्वान् = स्रुचिष्ठः, स्रुचीयान् । 'गुणाङ्गाद्' (७।३।९) इष्ठ-ईयसुप्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) मत्लुप् । __ [वसयति ] वसुमन्तमाचष्टे = वसयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) मत्लुप् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । __[वसिष्ठः, वसीयान् ] अयमेषामतिशयेन वसुमान् = वसिष्ठः, वसीयान् । 'गुणाङ्गाद्' (७।३।९) इष्ठ-ईयसुप्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७४।३२) मत्लुप् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् ।।
[इ.] अस्य विष्णोरपत्यम् = इ । 'अत इब' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अकारेण भवेद्विष्णुः इत्युक्तं श्रीसिद्धसेनदिवाकरस्य द्वात्रिंशतिका मध्ये ।
[ज्ञः ] जो देवताऽस्य = ज्ञः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [श्रीयः] श्रिये हितः = श्रीयः । 'तस्मै हिते' (७।१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । योगविभागात् 'अवर्णेवर्णस्य' (७।४।६८) इति लोपस्यापि प्रतिषेधः, यथा श्रेष्ठः, श्रेयान् इत्यत्र ॥छ।।
दण्डि-हस्तिनोरायने ॥ ७।४।४५ ॥ [दण्डिहस्तिनोः] दण्डी च हस्ती च = दण्डिहस्तिनौ, तयोः = दण्डिहस्तिनोः । षष्ठी ओस् । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ।
[आयने] आयन सप्तमी ङि । 'नोऽपदस्य तद्धिते' (७४।६१) इति प्राप्तौ प्रतिषेधोऽयम् ।
[दाण्डिनायनः ] दण्डिनोऽपत्यं = दाण्डिनायन: । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ।
[हास्तिनायनः ] हस्तिनोऽपत्यं = हास्तिनायनः । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ।
[दाण्डम् ] दण्डिनां समूहः = दाण्डम् । 'वादिभ्योऽञ्' (६।२।२६) अप्र० → अ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् ।
[हास्तिकम् ] हस्तिनां समूहः = हास्तिकम् । 'कवचि-हस्त्यचित्ताच्चेकण्' (६।२।१४) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् ॥छ।।
वाशिन आयनौ ॥ ७।४।४६ ॥ [वाशिनः ] वाशिन् षष्ठी ङस् ।
'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org