SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३२० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [लघिमा] लघोर्भावः = लघिमा । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । अनेन उलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । _[लघयति ] लघुमाचष्टे = लघयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन उलुक् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [ लघिष्ठः, लघीयान् ] अयमेषां-अयमनयोर्वा मध्ये प्रकृष्टः लघुः = लघिष्ठः, लघीयान् । 'गुणाङ्गाद्' (७।३।९) इष्ठ-ईयसुप्र० । अनेन उलुक् । [विमनिमा] विमनसो भावः = विमनिमा । 'वर्ण-दृढादिभ्यष्ट्यण च वा' (७१५९) इमन्प्र० । अनेन असूलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [सन्मनिमा] सन्मनसो भावः = सन्मनिमा । 'वर्ण-दृढादि०' (७।११५९) इमन्प्र० । अनेन अस्लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [पययति, पयसयति] पयो विद्यतेऽस्य = पयस्वी । 'अस्-तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विन्प्र० । पयस्विनमाचष्टे = पययति, पयसयति । 'णिज्बहुलं० (३।४।४२) णिच्प्र० । 'विन्-मतोष्ठेियसौ लुप्' (७।४।३२) विन्लुप् । मतान्तरे अनेनैव अस्लुक् विकल्पेन । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [पयिष्ठः, पयसिष्ठः, पयीयान्, पयसीयान्] अयमेषां-अयमनयोर्वा मध्ये अतिशयेन पयस्वी = पयिष्ठः, पयसिष्ठः, पयीयान्, पयसीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठ-ईयसुप्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) विन्लुप् । मतान्तरे अनेनैव अस्लुक विकल्पेन । [वसयति, वसवयति] वसूनि विद्यन्तेऽस्य । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । वसुमन्तमाचष्टे = वसयति, वसवयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) मत्लुप् । मतान्तरे अनेनैव उलुक् । द्वितीये गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्तः तिव् । कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [वसिष्ठः, वसविष्ठः, वसीयान्, वसवीयान्] अयमेषां-अयमनयोर्वा मध्ये अतिशयेन वसुमान् = वसिष्ठः, वसविष्ठः, वसीयान्, वसवीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठ-ईयसुप्र० । मतान्तरे अनेनैव उलुक्-गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छा। नैकस्वरस्य ॥ ७।४।४४ ॥ [न] न प्रथमा सि । [एकस्वरस्य] एकः स्वरो यस्य सः = एकस्वरः, तस्य । [स्रजयति] स्रग्विणमाचष्टे = स्रजयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) विन्लुप् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [स्रजिष्ठः, स्रजीयान् ] अयमेषामतिशयेन स्रग्वी = स्रजिष्ठः, स्रजीयान् । 'गुणाङ्गाद्' (७।३।९) इष्ठ-ईयसुप्र० । "विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) विन्लुप् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy