________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३१७
'विन्-मतोर्णीष्ठेयसौ लुप्' (७।४।३२) मतुलुप् । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । शोभना ऋच् = स्वच् । अयमनयोर्मध्ये प्रकृष्टा स्वच् = स्वचीयान् । आभ्यामगुणाङ्गत्वेऽपि 'विन्-मतो:०' (७४।३२) इति ज्ञापकस्य सर्वोदिष्टत्वादीयस् गुणाङ्गाः ईय ॥छ।
बहोर्णीष्ठे भूय् ॥ ७४॥४०॥ [बहोः] बहु षष्ठी ङस् । [णीष्ठे] णिश्च इष्ठश्च = णीष्ठम्, तस्मिन् । [भूय] भूय् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् ।
[भूययति ] बहुमाचष्टे = भूययति । "णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । अनेन बहुस्थाने भूय् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[भूयिष्ठः ] अयमेषां मध्ये प्रकृष्टो बहुः = भूयिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन बहुस्थाने भूय् ।
[भूयनम् ] बहोराख्यानं = भूयनम् । णिच्प्र० । अनेन भूयदेशः । भूय्यते = भूयनम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । 'णेरनिटि' (४।३।८३) णिच्लुक् । एकमेवेदं वाक्यम् । यद्वा बहुमाचष्टे । णिच्प्र० । अनेन भूय् । भूय्यते । अनट्प्र० । एवं मतान्तरेऽपि ।
[भावयति ] बहुमाचष्टे = भावयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । मतान्तरे "भू"देशः । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।।.
भूलृक् चेवर्णस्य ॥ ७।४।४१ ॥ [भूः] भू प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [लुक्] लुक् प्रथमा सि । [च] च प्रथमा सि । [इवर्णस्य ] इवर्ण षष्ठी ङस् ।
[ भूयान्, भूयांसौ, भूयांसः] अतिशयेन बहुः = भूयान्, भूयांसौ, भूयांसः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन बहुशब्दस्य भूदेश:-ईकारलोपश्च । सि-औ-जस् । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङ्याब्' (१।४।४५) सिलुक् । - [भूमा] बहोर्भावः = भूमा । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । अनेन बहुशब्दस्य भूदेशः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । भू ऊ इति ऊकारप्रश्लेषादवादेशो न भवति ॥छ।।
स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ॥ ७।४।४२ ॥ [स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्य ] स्थूलश्च दूरश्च युवा च हुस्वश्च क्षिप्रश्च क्षुद्रश्च = स्थूलदूरयुवहस्वक्षिप्रक्षुद्रम्, तस्य । [अन्तस्थादेः ] अन्तस्था आदिरवयवो यस्य सः = अन्तस्थादिः, तस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org