SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३१५ [म्रदिष्ठः] अयमेषां मध्ये प्रकृष्टो मृदुः = म्रदिष्ठः । 'गुणाङ्गाद्' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७४।४३) उलुक् । अनेन ऋतः स्थाने र० । _[मदीयान् ] अयमनयोर्मध्ये प्रकृष्टो मृदुः = प्रदीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० । [भ्रशिमा] भृशस्य भावः = भ्रशिमा । 'वर्ण-दृढादिभ्यष्ट्यण च वा' (७।१।५९) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [भ्रशयति] भृशमाचष्टे = भ्रशयति । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७४।४३) अलुक् । अनेन ऋतः स्थाने र० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । ‘एदैतोऽयाय' (२।२३) अय् । [भ्रशिष्ठः] अयमेषां मध्ये प्रकृष्टः भृशः = भ्रशिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । [भ्रशीयान् ] अयमनयोर्मध्ये प्रकृष्टः भृशः = भ्रशीयान् । 'गुणाङ्गाद्' (७।३।९) ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । [क्रशिमा] कृशस्य भावः = क्रशिमा । 'वर्ण-दृढादिभ्यष्ट्यण च वा' (७१५९) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [क्रशयति] कृशमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । 'वर्तः तिव् । 'कर्तर्यन०' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [क्रशिष्ठः ] अयमेषां मध्ये प्रकृष्टः कृशः = क्रशिष्ठः । 'गुणाङ्गाद्' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋत: स्थाने र० । [क्रशीयान् ] अयमनयोर्मध्ये प्रकृष्टः कृशः = क्रशीयान् । 'गुणाङ्गाद्' (७।३।९) ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक । अनेन ऋतः स्थाने र० । [द्रढिमा] दृढस्य भावः = द्रढिमा । 'वर्ण-दृढादिभ्यष्ट्यण च वा' (७।१।५९) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । ___ [द्रढयति] दृढमाचष्टे = द्रढयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋत: स्थाने र० । 'वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । __ [ द्रढिष्ठः ] अमयेषां मध्ये प्रकृष्टो दृढः = द्रढिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७४।४३) अलुक् । अनेन ऋतः स्थाने र० । [द्रढीयान् ] अयमनयोर्मध्ये प्रकृष्टो दृढः = द्रढीयान् । 'गुणाङ्गाद०' (७३।९) ईयसुप्र० → ईयस । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy