SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । _ [वृन्दिमा] वृन्दमस्यास्ति = वृन्दारकः । 'वृन्दादारकः' (७।२।११) आरकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वृन्दारकस्य भावः = वृन्दिमा । 'वर्ण-दृढादिभ्यष्ट्यण च वा' (७१५९) इमन्प्र० । अनेन वृन्दारकस्य वृन्द० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [वृन्दयति ] वृन्दारकमाचष्टे । “णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन वृन्दारकस्य वृन्द० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [वृन्दिष्ठः ] अयमेषां मध्ये प्रकृष्टो वृन्दारकः = वृन्दिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन वृन्दारकस्य वृन्द० । [वृन्दीयान् ] अयमनयोर्मध्ये प्रकृष्टो वृन्दारकः = वृन्दीयान् । 'गुणाङ्गाद्' (७।३।९) ईयसुप्र० → ईयस् । अनेन वृन्दारकस्य वृन्द० । वरादीनामकार उच्चारणार्थः ॥छ। पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः ॥ ७।४।३९ ॥ [पृथुमृदुभृशकृशदृढपरिवृढस्य ] पृथुश्च मृदुश्च भृशश्च कृशश्च दृढश्च परिवृढश्च = पृथुमृदुभृशकृशदृढपरिवृढम्, तस्य । . [ऋतः ] ऋत् षष्ठी ङस् । [रः] र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [प्रथिमा] पृथोर्भावः = प्रथिमा । 'पृथ्वादेरिमन् वा' (७१।५८) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । __ [प्रथयति ] पृथुमाचष्टे = प्रथयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० । वर्त्त तिव् । 'कर्त्तर्यन०' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [प्रथिष्ठः ] अयमेषां मध्ये प्रकृष्टः पृथुः = प्रथिष्ठः । 'गुणाङ्गाद्' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० । [प्रथीयान् ] अयमनयोर्मध्ये प्रकृष्टः पृथुः = प्रथीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० ।। [म्रदिमा] मृदोर्भावः = म्रदिमा । 'पृथ्वादेरिमन् वा' (७१५८) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७४।४३) उलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [म्रदयति] मृदुमाचष्टे = म्रदयति । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) उलुक् । अनेन ऋतः स्थाने र० । वर्त० तिव् । 'कतर्यन०' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy