________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३१३
[बंहिमा] बहुलस्य भावः = बंहिमा । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । अनेन बहुलस्य बंह० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[बंहयति] बहुलमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन बहुलस्य बंह० । 'चन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्त० तिव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२४) अय् ।
[बंहिष्ठः ] अयमेषां मध्ये प्रकृष्टो बहुलः = बंहिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन बहुलस्य बंह।
[बंहीयान् ] अयमनयोर्मध्ये प्रकृष्टो बहुलः = बंहीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन बहुलस्य बंह० ।
[त्रपिमा ] तृप्रस्य भावः = त्रपिमा । 'पृथ्वादेरिमन् वा' (७।१५८) इमन्प्र० । अनेन तृप्रस्य त्रप० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[त्रपयति] तृप्रमाचष्टे = त्रपयति । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । अनेन तृप्रस्य त्रप० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्तः तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए० । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[त्रपिष्ठः] अयमेषां मध्ये प्रकृष्टः तृप्रः = त्रपिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन तृप्रस्य त्रप० ।
[त्रपीयान् ] अयमनयोर्मध्ये प्रकृष्टः तृप्रः = पीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन तृप्रस्य त्रप० ।
[द्राघिमा] दीर्घस्य भावः = द्राघिमा । 'पृथ्वादेरिमन् वा' (७१५८) इमन्प्र० । अनेन दीर्घस्य द्राघ० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।।
[वाघयति] दीर्घमाचष्टे = द्राघयति । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । अनेन दीर्घस्य द्राघ० । 'त्रन्त्यस्वरादेः' (७४।४३) अलुक् । वर्त० तिव् । 'कर्त्तर्यनद्भ्य शव्' (३।४/७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[ द्राधिष्ठः] अयमेषां मध्ये प्रकृष्टो दीर्घः = द्राघिष्ठः । ‘गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन दीर्घस्य द्राघ० ।
[ द्राधीयान् ] अयमनयोर्मध्ये प्रकृष्टो दीर्घः = द्राधीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन दीर्घस्य द्राघ० ।
[वर्षिमा] वृद्धस्य भावः = वर्षिमा । 'पृथ्वादेरिमन् वा'. (७।१।५८) इमन्प्र० । अनेन वृद्धस्य वर्ष० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
[वर्षयति] वृद्धमाचष्टे = वर्षयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन वृद्धस्य वर्ष० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[वर्षिष्ठः ] अमयेषां मध्ये प्रकृष्टो वृद्धः = वर्षिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन वृद्धस्य वर्ष० ।
[वर्षीयान् ] अयमनयोर्मध्ये प्रकृष्टो वृद्धः = वर्षीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन वृद्धस्य वर्ष० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org