________________
३१०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[श्रयति] प्रपूर्व० 'शंसू स्तुतौ च' (५५०) शंस् । प्रशस्यत इति प्रशस्यः । 'कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा' (५।१।४२) क्यप्प्र० → य । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । प्रशस्यमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिचप्र० । अनेन प्रशस्यस्थाने "श्र"देशे अन्त्यस्वरादेः अलुक् । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[श्रेष्ठः] अयमेषां मध्ये प्रकृष्टः प्रशस्यः = श्रेष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) इष्ठप्र० । अनेन प्रशस्यस्य "श्र"देशः । अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए ।
[श्रेयान् ] अयमनयोर्मध्ये प्रकृष्टः प्रशस्यः = श्रेयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन प्रशस्यस्य "श्र"देशः । 'अवर्णस्ये०' (१।२।६) ए ॥छ।।
वृद्धस्य च ज्यः ॥७।४।३५ ॥
[वृद्धस्य] वृद्ध षष्ठी ङस् । [च] च प्रथमा सि । [ज्यः] ज्य प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[ज्ययति] वृद्ध-प्रशस्यं वा आचष्टे । 'णिज् बहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप्र० । अनेन वृद्ध-प्रशस्ययोः स्थाने "ज्य"देशः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ज्येष्ठः ] अयमेषां मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा = ज्येष्ठः । ‘गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन वृद्ध- .. प्रशस्ययोः स्थाने "ज्य"देशः । 'अवर्णस्ये०' (१।२।६) ए ॥छ।
ज्यायान् ॥ ७।४।३६ ॥
[ज्यायान्] ज्यायान् प्रथमा सि ।
[ज्यायान् ] अयमनयोर्मध्ये प्रकृष्टो वृद्धः प्रशस्यो वा = ज्यायान् । अत्राकारस्यापि निपातने ज्यायानिति सिध्यति । 'लुगस्यादेत्यपदे' (२।१।११३) इत्यस्याकारकरणादेवाप्रवृत्तेः प्रक्रियानिरासार्थं त्वाकारकरणम् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन वृद्ध-प्रशस्ययोः स्थाने "ज्य"देश:-ईयसोरीकारस्य आकारादेशो निपात्यते । 'समानानां०' (१।२।१) दीर्घः ।
[ज्यायसी] अयमनयोरतिशयेन प्रशस्यो वृद्धो वा = ज्यायसी । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन ज्यायस् पूर्ववन्निपातः । 'अधातूदृदितः' (२।४।२) ङी । ईयस्प्र० उकारानुबन्धः अतो ङी ॥छ।।
बाढा-ऽन्तिकयोः साध-नेदौ ॥ ७॥४॥३७ ॥ [बाढाऽन्तिकयोः] बाढश्च अन्तिकश्च = बाढाऽन्तिकौ, तयोः । [साधनेदौ ] साधश्च नेदश्च = साधनेदौ ।।
[साधयति] बाढमाचष्टे = साधयति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । अनेन बाढस्य "साध"देशः । साध-नेदौ इति समानलोपित्वात् ङपरे णौ सन्वदादिकार्याभावः । 'त्रन्त्यस्वरादेः' (७४।४३) अलुक् । वर्त० तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
गाविधः (२वश्यश् शिव ० । अनेन लाइव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org