SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ साधिष्ठः] अयमेषां मध्ये प्रकृष्टो बाढः = साधिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) इष्ठप्र० । अनेन बाढस्य " साध" देश: । ' त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । [ साधीयान् ] अयमनयोर्मध्ये प्रकृष्टो बाढः = साधीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० । अनेन बाढस्य " साध" देश: । ' त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । [ नेदयति ] अन्तिकमाचष्टे । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । अनेन अन्तिकस्थाने "नेद" देश: । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [ नेदिष्ठः ] अयमेषां मध्ये प्रकृष्टोऽन्तिकः = नेदिष्ठ: । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन अन्तिकस्थाने "नेद"देशः । 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । [ नेदीयान् ] अयमनयोर्मध्ये प्रकृष्टोऽन्तिकः नेदीयान् । 'गुणाङ्गाद्०' (७|३|९) ईयसुप्र० अन्तिकस्थाने "नेद" देश: । 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् ॥छ । प्रिय-स्थिर-स्फिरोरु-गुरु- बहुल- तृप्र-दीर्घ- वृद्ध-वृन्दारक- स्येमनि च प्रा-स्था- स्फा- वर - गर - बंह- त्रप द्राघ - वर्ष-वृन्दम् ॥ ७।४।३८ ॥ ३११ = [प्रेष्ठः ] अयमेषां मध्ये प्रकृष्टः प्रियः 'अवर्णस्ये० ' (१|२|६) ए । [ प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्य ] प्रियश्च स्थिरश्च स्फिरश्च उरुश्च गुरुश्च बहुलश्च तृप्रश्च दीर्घश्च वृद्धश्च वृन्दारकश्च = प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकम् तस्य । [ इमनि ] इमन् सप्तमी ङि । [च] च प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ प्रास्थास्फावरगरबंहत्रपद्राघवर्षवृन्दम् ] प्राश्च स्थाश्च स्फाश्च वरश्च गरश्च बंहश्च त्रपश्च द्राघश्च वर्षश्च वृन्दश्च प्रास्थास्फावरगरबंहत्रपद्राघवर्षवृन्दम् । [प्रेमा ] प्रियस्य भावः = प्रेमा । 'पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन प्रियस्य प्रा० 1 ‘अवर्णस्येवर्णादिनैदोदरल्’ (११२६) ए । प्रथमा सि । 'नि दीर्घः' (१।४।४५) दीर्घः । 'दीर्घङ्याब्० ' (१|४|४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१ ) नलुक् । [ प्रेयान् ] अयमनयोर्मध्ये प्रकृष्टः प्रियः प्रेयान् । 'गुणाङ्गाद्०' (७३।९ ) ईयसुप्र० प्रा० । 'अवर्णस्ये० ' (११२६) ए । →>> [ प्रापयति ] प्रियमाचष्टे = प्रापयति । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । अनेन प्रियस्य प्रा० । 'अति-री- व्लीही - क्नूय - क्ष्माय्यातां पु:' ( ४।२।२१ ) इति सूत्रे बहुवचनात् नाम्नोऽपि पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘नामिनो गुणोऽक्ङिति ' ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । = प्रेष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन प्रियस्य प्रा० । Jain Education International ईस् । अ - For Personal & Private Use Only [स्थेमा] स्थिरस्य भावः = स्थेमा । 'वर्ण - दृढादिभ्यष्ट्यण् च वा' (७/१/५९) इमन्प्र० । अनेन स्थिरस्य स्था० । ‘अवर्णस्ये॰' (१।२।६) ए । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । ईस् । अनेन प्रियस्य www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy