________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३०९
[स्रजिष्ठः ] अयमेषां स्रग्विणां मध्येऽतिशयेन स्रग्वी = स्रजिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन विन्लुप् । ___ [स्रजीयान् ] अयमनयोः स्रग्विणो मध्येऽतिशयेन स्रग्वी = स्रजीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन विन्लुप् ।
[त्वचबति] त्वम् विद्यतेऽस्य = त्वग्वान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । त्वग्वन्तमाचष्टे = त्वचयति । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन मतुलोप: । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[त्वचिष्ठः ] अयमेषां मध्ये प्रकृष्टस्त्वग्वान् = त्वचिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन मतुलुप् ।
[त्वचीयान् ] अयमनयोर्मध्येऽतिशयेन त्वग्वान् = त्वचीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन मतुलुप् ।
[कुमुदयति ] कुमुदान्यत्र सन्ति । 'नड-कुमुद-वेतस-महिषाड्डित्' (६।२।७४) डित् मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० । कुमुद्वन्तमाचष्टे । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अनेन मतुलुप् । वर्तः तिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[कुमुदिष्ठः ] अयमेषां मध्ये प्रकृष्टः कुमुद्वान् = कुमुदिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । अनेन मतुलुप् ।
[कुमुदीयान् ] अयमनयोर्मध्येऽतिशयेन कुमुद्वान् = कुमुदीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । अनेन मतुलुप् । प्रथमैकवचनं सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।११८९) सलोपः ॥छ।
अल्प-यूनोः कन् वा ॥ ७।४।३३ ॥ [अल्पयूनोः] अल्पश्च युवा च = अल्पयुवानौ, तयोः = अल्पयूनोः । षष्ठी ओस् । [कन्] कन् प्रथमा सि । [वा] वा प्रथमा सि ।।
[कनयति, कनिष्ठः, कनीयान्, अल्पयति, अल्पिष्ठः, अल्पीयान्, यवयति, यविष्ठः, यवीयान्] अल्पं युवानं च आचष्टे । 'णिज्बहुलं०' (३।४।४२) णिच्प्र० । अयमेषां अतिशयेन अल्पो युवा वा = कनिष्ठः, कनीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) इष्ठ-ईयसुप्र० । अनेन अल्पस्य यूनो वा स्थाने "कन्"देशो विकल्पेन । एवम्-अल्पयतीत्यादि । अत्रापि अगुणाङ्गादपि इष्ठेयसू वचनसामर्थ्यात् भवतः । अन्यथा 'स्थूल-दूर०' (७।४।४२) इत्यनेन अन्तस्थादेरवयवस्य लुब्-गुणोऽपि न स्यात्, तयोरभावात् । एवमुत्तरेष्वपि दृश्यन्ते । युवानमाचष्टे । 'णिज् बहुलं०' (३।४।४२) णिच्प्र० । अयमेषां मध्ये प्रकृष्टो युवा = यविष्ठः । अयमनयोर्मध्ये प्रकृष्टो युवा = यवीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठईयसुप्र० । 'स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः' (७४।४२) वन्लोप:-गुणश्च । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छ।
प्रशस्यस्य श्रः ॥७।४।३४ ॥
[प्रशस्यस्य] प्रशस्य षष्ठी ङस् ।
[श्रः] श्र प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org