________________
३०८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ भ्रौणहत्यम् ] भ्रूण-'हनंक हिंसा-गत्योः' (११००) हन् । भ्रूणं हतवान् = भ्रूणहा । 'ब्रह्म-भ्रूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । भ्रूणघ्नो भावः कर्म वा = श्रौणहत्यम् । 'पतिराजान्तगुणा०' (७।१।६०) ट्यण्प्र० → य । अनेन नस्य तनिपात्यते । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ ।
[धैवत्यम् ] 'डुधांग्क् धारणे च' (११३९) धा । दधातीति धीवा । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) क्वनिप्प्र० → वन् । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ई० । धीनो भावः कर्म वा = धैवत्यम् ।। 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । अनेन नस्य तनिपात्यते । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: ऐ।
[हिरण्मयम् ] हिरण्यस्य विकारः = हिरण्मयम् । 'अभक्ष्या-ऽऽच्छादने वा मयट्' (६।२।४६) मयट्प्र० → मय । अनेन यलोपः ॥छा।
वाऽन्तमा-ऽन्तितमा-ऽन्तितो-ऽन्तिया-ऽन्तिषद् ॥ ७।४।३१ ॥ [वा] वा प्रथमा सि ।
[अन्तमाऽन्तितमाऽन्तितोऽन्तियाऽन्तिषद् ] अन्तमश्च अन्तितमश्च अन्तितश्च अन्तियश्च अन्तिषद् च = अन्तमाऽन्तितमाऽन्तितोऽन्तियाऽन्तिषद् ।
. [अन्तमः, अन्तिकतमः] अयमेषामतिशयेनान्तिकः = अन्तमः, पक्षे-अन्तिकतमः । 'प्रकृष्टे तमप्' (७३५) तमप्प्र० → तम । अनेन तिकलुप् । 'नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुट्परे' (१।३।८) नकारस्य सकाराभावश्च निपात्यते ।
[अन्तितमः, अन्तिकतमः ] अयमेषामतिशयेनान्तिकः = अन्तितमः । 'प्रकृष्टे तमप्' (७।३५) तमप्प्र० → तम । अनेन कलोपो निपात्यते । एवम्-अन्तिकतमः ।
[अन्तित आगच्छति, अन्तिकत आगच्छति] अन्तिकादागच्छति = अन्तित आगच्छति । 'अहीय-रुहोऽपादाने' (७।२।८८) तसुप्र० → तस्-कलोपो निपात्यते । एवम्-अन्तिकत आगच्छति ।
[अन्तियः, अन्तिक्यः] अन्तिके साधुः = अन्तियः । 'तत्र साधौ' (७१२१५) यप्र० । अनेन कलोपो निपात्यते इकारस्य च लोपाभावः । एवम्-अन्तिक्यः ।
[अन्तिषद्, अन्तिकसत्] अन्तोऽस्यास्तीति अन्तिकः । 'अतोऽनेकस्वरात्' (७२।६) इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'षद्लूं विशरणगत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै०' (२।३।९८) सद् । अन्तिके सीदति = अन्तिषद । क्विपप्र० । अनेन कलोपः-सस्य षत्वं च निपात्यते । एवम्-अन्तिकसत् ॥छ।
विन्-मतोर्णीष्ठेयसौ लुप् ॥ ७।४।३२ ॥ [विन्मतोः ] विन् च मतुश्च = विन्मतु, तस्य । [णीष्ठेयसौ ] णिश्च इष्टश्च ईयसुश्च = णीष्ठेयसु, तस्मिन् । [लुप्] लुप् प्रथमा सि ।
[स्रजयति] स्रग् विद्यते यस्य = स्रग्वी । अस् तपो-माया-मेधा-स्रजो विन्' (७।२।४७) विन्प्र० । स्रग्विणमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिचप्र० । अनेन विन्लुप् । वर्त० तिव् । 'कर्तर्यन०' (३।४/७१) शव् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org