________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३०७
[आग्नेन्द्रं सूक्तम्] अग्निश्च इन्द्रश्च = अग्नेन्द्रौ । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आ । अग्नेन्द्रौ देवता अस्य = आग्नेन्द्रं सूक्तम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ।
[सौमेन्द्रं हविः] सोमश्च इन्द्रश्च = सोमेन्द्रौ । 'वेदसहश्रुता०' (३।२।४१) आ । सोमेन्द्रौ देवता अस्य तत् = सौमेन्द्र हविः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ।
[ऐन्द्रावरुणम् ] इन्द्रश्च वरुणश्च = इन्द्रावरुणौ । 'वेदसहश्रुताऽवा०' (३।२।४१) आ । इन्द्रावरुणौ देवता अस्य = ऐन्द्रावरुणम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । .
[मैत्रावरुणम्] मित्रश्च वरुणश्च = मित्रावरुणौ । वेदसहश्रुताऽवायुदेव०' (३।२।४१) आ । मित्रावरुणौ देवता अस्य = मैत्रावरुणम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ ।
[आग्निवारुणम् ] अग्निश्च वरुणश्च = अग्निवरुणौ । 'इर्वृद्धिमत्यविष्णौ' (३।२।४३) इ । अग्निवरुणौ देवता अस्य = आग्निवारुणम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'देवतानामात्वादौ' (७।४।२८) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ऐन्द्राग्नं एकादशकपालं पुरोडाशं निर्वपेत् ] इन्द्रश्च अग्निश्च = इन्द्राग्नी । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आं । इन्द्राग्नी देवता अस्य तत् = ऐन्द्राग्नम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'देवतानामात्वादौ' (७।४।२८) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इवर्णस्य लुक् । सि-अम् । एकादशसु कपालेषु संस्कृतम् = एकादशकपालम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) लुप् । पुरोडाश अम् । 'डुवपी बीजसन्ताने' (९९५) वप् । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'यः सप्तम्याः ' (४।२।१२२) या० → इ० । 'अवर्णस्ये०' (१।२।६) ए। [ पूर्वेषुकामशमः ] एतस्य साधना 'प्राग्ग्रामाणाम्' (७।४।१७) इत्यत्र सूत्रे ज्ञेयः ॥छ।।
सारवैश्वाक-मैत्रेय-भ्रौणहत्य-धैवत्य-हिरण्मयम् ॥ ७।४।३० ॥ [सारवैक्ष्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ] सारवश्च ऐक्ष्वाकश्च मैत्रेयश्च भ्रौणहत्यश्च धैवत्यश्च हिरण्मयश्च = सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ।
[सारवमुदकम्] सरय्वां भवं = सारवमुदकम् । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन अय् लुक् निपात्यते । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । __ [ऐक्ष्वाकः ] इक्ष्वाकोरपत्यम् = ऐक्ष्वाकः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिर' (६।१।११४) अप्र० → अ । अनेन उलुक् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ ।
[ऐक्ष्वाकम् ] इक्ष्वाकोरिदम् = ऐक्ष्वाकम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन उलोपः । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ।
[ मैत्रेयः ] मित्रयोरपत्यं = मैत्रेयः । 'गृष्ट्यादेः' (६।१।८४) एयप्र० → एय । अनेन मित्रयुशब्दस्य युलुक् निपात्यते ।
[मैत्रेयकम् ] मित्रयणां सङ्गः = मैत्रेयकम् । 'गोत्राददण्डमाणव-शिष्ये' (६।३।६९) अकप्र० → अक । अनेन युलुक निपात्यते । अकञ्बाधित्वा 'सङ्क-घोषा-ऽङ्क-लक्षणेऽञ्-यजिञः' (६।३।१७२) इत्यादिना अण् स्यात् । ___मित्रयोरपत्यानि । 'गृष्ट्यादेः' (६।१।८४) इति विहितस्य एयः "विदादेवृद्धे' (६।१।४१) इति विहितस्य अञ् 'यस्कादेर्गोत्रे' (६।१।१२५) इत्यनेन लुबर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org