SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [सार्ववैद्यम् ] सर्वे वेदाः, सर्वा विद्या वा = सार्ववैद्यम् । 'भेषजादिभ्यष्ट्यण्' (७।२।१६४) ट्यण्प्र०य । अनेन उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । यदा विद्या तदा 'व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा' (१।३।४७) इति यस्य लुक् । ३०६ [ राजपुरुषायणि: ] राजपुरुषस्यापत्यं = राजपुरुषायणि: । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिञ्प्र० 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः ॥छ देवतानामात्वादौ ॥ ७।४।२८ ॥ [ देवतानाम् ] देवता षष्ठी आम् । [ आत्वादौः ] आत्व आदिर्यस्य सः = आत्वादिः तस्मिन् । 'वेदसहश्रुताऽवायुदेवतानाम्' ( ३।२।४१ ) इत्यादिसूत्रात् 'उषासोषसः ' ( ३।२।४६ ) इत्यादियावत् यत्कार्यं तदात्वमुच्यते । [ आग्नावैष्णवं सूक्तम् ] अग्निश्च विष्णुश्च = अग्नाविष्णु (णू) । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१ ) इ० आ० । अग्नाविष्णू देवतेऽस्य = आग्नावैष्णवं सूक्तम् । 'देवता' (६।२।१०१) अण्प्र० अ । अनेन उभयपदवृद्धिः । 'अस्वयम्भुवोऽव्' (७|४।७०) अव् । [ ऐन्द्रापौष्णं हविः ] इन्द्रश्च पूषा च = इन्द्रापूषाणौ । 'वेदसहश्रुताऽवायुदेवतानाम् ' ( ३।२।४१) आत्वम् । इन्द्रापूषाणौ देवतेऽस्य = ऐन्द्रापौष्णं हविः । 'देवता' ( ६ |२| १०१) अण्प्र० अ । अनेन उभयपदवृद्धिः । 'षादि - हन्- धृतराज्ञोऽणि' (२|१|११० ) अलुक् । 'र- षृवर्णान्नो ण० ' (२।३।६३ ) णत्वम् । [ आग्निमारुतं कर्म] अग्निश्च मरुच्च = अग्निमरुतौ, अग्निमरुतौ देवतेऽस्य आग्निमारुतं कर्म । 'देवता' (६।२।१०१) अण्प्र० अ । अनेन उभयपदवृद्धिः । [ आग्निवारुणीमनड्वाहीमालभेत ] अग्निश्च वरुणश्च = अग्निवरुणौ । 'ई: षोम - वरुणेऽग्नेः ' ( ३।२।४२ ) इत्यस्य बाधकः ‘इर्वृद्धिमत्यविष्णौ ' ( ३।२।४३ ) इ । अग्निवरुणौ देवतेऽस्याः सा = आग्निवारुणी, ताम् । 'देवता' (६।२।१०१) अण्प्र० अ । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । अनडुह 'गौरादिभ्यो मुख्यान्ङीः ' (२।४।१९ ) ङी । 'वा शेषे' (१।४।८२) वा । 'डुलभष् प्राप्तौ' (७८६) लभ्, आङ्पूर्व० । सप्तमी ईत । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अवर्णस्येवर्णादिनैदोदरल्' (११२६) ए । [ स्कान्दविशाखम् ] स्कन्दश्च विशाखश्च = स्कन्दविशाखौ, स्कन्दविशाखयोरिदं (६।३।१६०) अण्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः । स्कान्दविशाखम् । 'तस्येदम्' [ ब्राह्मप्रजापत्यम् ] ब्रह्मा च प्रजापतिश्च ब्रह्मप्रजापती, तयोर्भावः = ब्राह्मप्रजापत्यम् । 'अनिदम्यणपवादे च दित्यदित्यादित्य-यम-पत्युत्तरपदाञ्ज्य:' (६।१।१५) ञ्यप्र०य । वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । → आयनि । = Jain Education International आतो नेन्द्र-वरुणस्य ॥ ७।४।२९ ॥ [ आत: ] आत् पञ्चमी ङसि । [न] न प्रथमा सि । [ इन्द्रवरुणस्य ] इन्द्रश्च वरुणश्च = इन्द्रवरुणम्, तस्य । For Personal & Private Use Only = www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy