________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
२९९
[त्रैसमिकः] तिसृभिः समाभिनिर्वृत्तः, तिसृभिः(भ्यः) समाभिः(भ्यः) भृतोऽधीष्टो वा, तिस्रः समाः भूतो भावी वा = त्रैसमिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
[द्वैरात्रिकः] द्वाभ्यां रात्रिभ्यां निर्वृत्तः, द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा, द्वौ रात्री भूतो भावी वा = द्वैरात्रिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ।
[त्रैरात्रिकः] त्रिभी रात्रिभिनिर्वृत्तः, त्रिभिः(भ्यः) रात्रिभिः(भ्यः) भृतोऽधीष्टो वा, त्रयो रात्रयो भूतो भावी वा = त्रैरात्रिकः । 'संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९) अत्समासान्तः → अ । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[द्वैशाणम्] द्वाभ्यां शाणाभ्यां क्रीतं = द्वैशाणम् । “द्वि-त्र्यादेर्याऽण् वा' (६।४।१४७) अण्प्र० । अस्य तु विधानसामर्थ्यात् 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इत्यादिना न लुप् । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
[त्रैशाणम] त्रिभिः शाणैः क्रीतं = त्रैशाणम् । 'द्वि-त्र्यादेर्याऽण् वा' (६।४।१४७) अण्प्र० । अस्य तु विधानसामर्थ्यात् 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इत्यादिना न लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ... [द्वैकलिजिकः] द्वे कलिजे पचति संभवत्यवहरति च = द्वैकलिजिकः । 'सम्भवदवहरतोच' (६४१६२) इकणप्र० । 'कुलिजाद् वा लुप च' (६।४।१६५) इति वा लुप । अत्र तु न लप । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । - [त्रैकुलिजिकः] त्रीणि कुलिजानि पचति संभवत्यवहरति च = चैकुलिजिकः । 'सम्भवदवहरतोश्च' (६।४।१६२) इकण्प्र० । 'कुलिजाद् वा लुप् च' (६।४।१६५) इति वा लुप् । अत्र तु न लुप् । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पाञ्चलोहितिकम् ] पञ्च लोहिन्यः परिमाणमस्य = पाञ्चलोहितिकम् । 'मानम्' (६।४।१६९) इति यथाविहितं इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । . [पाञ्चकलायिकम् ] पञ्च कलायानां परिमाणमस्य = पाञ्चकलायिकम् । 'मानम्' (६।४।१६९) इति यथाविहितं इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । कलायो नाम मालवकप्रसिद्धो भेदः, तत् करणानां पञ्चानां यावत् परिमाणं भवति तन्मात्रस्य परिमाणविशेषणस्यैव 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इति न लुप् ॥छा।
___ अर्थात् परिमाणस्यानतो वा त्वादेः ॥ ७।४।२० ॥ [अर्थात् ] अर्ध पञ्चमी ङसि । [परिमाणस्य ] परिमाण षष्ठी ङस् । [अनतः] न अत् = अनत्, तस्य । [वा] वा प्रथमा सि । [तु] तु प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org