________________
३००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[आदेः] आदि षष्ठी ङस् ।
[अर्धकौडविकम्, आर्धकौडविकम् ] अर्धं कुडवस्य = अर्धकुडवः, अर्धकुडवेन क्रीतम् = अर्धकौडविकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः औ । एवम् = आर्धकौडविकम् । अनेन उभयत्र वृद्धिः ।
[अर्धमौष्टिकम्, आर्धमौष्टिकम् ] अर्धमुष्टिना क्रीतम् = अर्धमौष्टिकम्, आर्धमौष्टिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । अनेन उभयत्र वृद्धिः औ । पूर्वस्वरस्य अनेन वा वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[अर्धद्रौणिकम्, आर्धद्रौणिकम् ] अर्धद्रोणेन क्रीतम् = अर्धद्रौणिकम्, आर्धद्रौणिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । अनेन उभयत्र वृद्धिः औ । पूर्वस्वरस्य अनेन वा वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आर्धक्रोशिकम् ] क्रोशस्यार्धम् = अर्धक्रोशः । अर्धक्रोशः प्रयोजनमस्य = आर्धक्रोशिकम् । 'प्रयोजनम्' (६।४।११७) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[अर्धप्रस्थिकम्, आर्धप्रस्थिकम् ] अर्धप्रस्थेन क्रीतम् = अर्धप्रस्थिकम्, आर्धप्रस्थिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक।
- [अर्धकंसिकम्, आर्धकंसिकम्] अर्धं कंसस्य = अर्धकंसः । अर्धकंसः प्रयोजनमस्य = अर्धकंसिकम्, आर्धकंसिकम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । क्रीतेऽर्थे इकण् न भवति । 'अर्धात् पल-कंस-कर्षात्' (६।४।१३४) इति इकटि सति वृद्ध्यप्राप्तेः अनेन वा वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[अर्धचमसिकम्, आर्धचमसिकम् ] चमसस्य पात्रविशेषस्य अर्धम् = अर्धचमसः । अर्धचमसः प्रयोजनमस्य = अर्धचमसिकम्, आर्धचमसिकम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । अनेन वा वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
अतः प्रतिषेधादाकारस्य वृद्धिर्भवत्येव ।
[अर्धखारी] अर्धखार्यां भवा = अर्धखारी । 'भवे' (६।३।१२३) अणप्र० → अ । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) ईकारलुक् । 'अणजेयेकण्' (२।४।२०) ङी ।
कः पुनरत्र विशेष:-सत्यामसत्यां वा वृद्धौ ? उच्यते -
[अर्धखारीभार्यः ] अर्धखारी भार्या अस्य = अर्धखारीभार्यः । ‘गोश्चान्ते.' (२।४।९६) हुस्वः । यद्यत्र वृद्धिप्रतिषेधः स्यात्, अयं तद्धितो न वृद्धिहेतुरिति पुंवद्भावप्रतिषेधो न स्यात्, यथा
[अर्धप्रस्थभार्यः] अर्धप्रस्थे भवा = अर्धप्रस्थी । 'भवे' (६।३।१२३) अणप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । अर्धप्रस्थी भार्या यस्य सः = अर्धप्रस्थभार्यः । 'गोश्चान्ते.' (२।४।९६) ह्रस्वः । 'परतः स्त्री पुम्वत्०' (३।२।४९) पुंवद्भावः । अत्र अनत इति भणनात् नोत्तरपदवृद्धिः । पूर्वपदस्य "वा त्वादेः" इति वचनान्न भवति, ततस्तद्धितस्य स्वरवृद्धिहेतुत्वाभावान्न पुंवन्निषेधः ॥छ।।
प्राद् वाहणस्यैये ॥ ७।४।२१ ॥ [प्रात्] प्र पञ्चमी ङसि । [वाहणस्य] वाहयतीति वाहनः । 'नन्द्यादिभ्योऽनः' (५।१५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक्, तस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org