________________
२९८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[द्विषाष्टिकः] द्वाभ्यां षष्टिभ्यां निर्वृत्तः, द्वाभ्यां षष्टिभ्यां भृतोऽधीष्टो वा, द्वे षष्टी भूतो भावी वा = द्विषाष्टिकः । 'कालात् परिजय्य-लभ्य-कार्य-सुकरे' (६।४।१०४) इत्यधिकारे 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[त्रिषाष्टिकः] त्रिभिः षष्टिभिनिर्वत्तः, त्रिभ्यः षष्टिभ्यो भृतोऽधीष्टो वा, तिस्रः षष्ट्यः भूते भावी वा = त्रिषाष्टिकः । 'कालात् परिजय्य-लभ्य-कार्य-सुकरे' (६।४।१०४) इत्यधिकारे 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।।
[अधिकषाष्टिकः] अधिकया षष्ट्या निर्वृत्तः, अधिकायै षष्ट्यै भृतोऽधीष्टो वा = अधिकषाष्टिकः । 'कालात् परिजय्य-लभ्य-कार्य-सुकरे' (६।४।१०४) इत्यधिकारे 'निर्वृत्ते' (६।४।१०५) इत्यादिभि: सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[द्विसाप्ततिकः] द्वाभ्यां सप्ततिभ्यां निर्वृत्तः, द्वाभ्यां सप्ततिभ्यां भृतोऽधीष्टो वा, द्वे सप्तती भूतो भावी वा = द्विसाप्ततिकः । 'कालात् परिजय्य-लभ्य-कार्य-सुकरे' (६।४।१०४) इत्यधिकारे 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[अधिकसाप्ततिकः] अधिकया सप्तत्या निर्वृत्तः, अधिकायै सप्तत्यै भृतोऽधीष्टो वा = अधिकसाप्ततिकः । . 'कालात् परिजय्य-लभ्य०' (६।४।१०४) इत्यधिकारे 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इवर्णस्य लुक ।
[द्विनावतिकम् ] द्वाभ्यां नवतिभ्यां क्रीतं = द्विनवति द्रव्यम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । . 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि । 'अनतो लुप्' (१।४।५९) लुप् । द्वौ च नवतिश्च द्विनवतिस्तया वा क्रीतं = द्विनावतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[त्रिनावतिकम् ] त्रिभिर्नवतिभिः क्रीतं = त्रिनवति द्रव्यम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । तेन । तिस्रश्च नवतिश्च = त्रिनवतिस्तया वा क्रीतं = त्रिनावतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[द्विसांवत्सरिकः] द्वाभ्यां संवत्सराभ्यां निर्वत्तः, द्वाभ्यां संवत्सराभ्यां भृतोऽधीष्टो वा, द्वौ संवत्सरौ भूतो भावी वा = द्विसांवत्सरिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[विसांवत्सरिकः] त्रिभिः संवत्सरैर्निवृत्तः, त्रिभिः(भ्य:)संवत्सरैः(रेभ्यः) भृतोऽधीष्टो वा, त्रयः संवत्सरा भूतो भावी वा = त्रिसांवत्सरिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक। अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
संवत्सरग्रहणात् कालो मानग्रहणेन न गृह्यते तेन --
[द्वैसमिकः] द्वाभ्यां समाभ्यां निर्वृत्तः, द्वाभ्यां समाभ्यां भृतोऽधीष्टो वा, द्वे समे भूतो भावी वा = द्वैसमिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४६८) अवर्णस्य लुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org