SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ २९७ [त्रिवार्षिकः ] त्रिभिर्वर्षाभिनिर्वृत्तः, त्रिभिर्वर्षेभृतोऽधीष्टो वा, त्रीन् वर्षान् भूतः = त्रिवार्षिकः । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [अधिकवार्षिकः] अधिकेन वर्षेण निर्वृत्तः, अधिकाय वर्षाय भृतोऽधीष्टो वा, अधिकं वर्षं भूतः = अधिकवार्षिक: । 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [द्वैवर्षिकं, त्रैवर्षिकं धान्यम् ] द्वे वर्षे भावि = द्वैवा(व)र्षिकम् । त्रीणि वर्षाणि भावि = त्रैवा(व)र्षिकम् । 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, धान्यम् । [द्विवार्षिको मनुष्यः] द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति = द्विवार्षिक: । 'तस्मै भृता-ऽधीष्टे च' (६।४।१०७) इकण्प्र० → इक । अधीष्टभृतयोः प्रत्ययो न भाविनीति प्रतिषेधो न भवति । गम्यते ह्यत्र भविष्यत्ता, न तु प्रत्ययार्थः ॥छ। मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि ॥ ७।४।१९ ॥ - [मानसंवत्सरस्य] 'मांङ्क मान-शब्दयोः' (११३७) मा । मीयते परिच्छिद्यते येन तन्मानम् । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । मानश्च संवत्सरश्च = मानसंवत्सरम्, तस्य । [अशाणकुलिजस्य ] शाणश्च कुलिजश्च = शाणकुलिजम्, न शाणकुलिजम् = अशाणकुलिजम्, तस्य । [अनाम्नि ] न नाम = अनाम्, तस्मिन् । [द्विकौडविकः ] द्वौ कुडवौ प्रयोजनमस्य = द्विकौडविकः । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णवर्णस्य' (७४।६८) अलुक् । [त्रिकौडविकः ] त्रयः कुडवाः प्रयोजनमस्य = त्रिकौडविकः । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अधिककौडविकः ] अधिकः कुडवः प्रयोजनमस्य = अधिककौडविकः । 'प्रयोजनम्' (६।४।११७) इकण्प्र० → इक । अनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलक । [द्विसौवर्णिकम् ] द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसौवर्णिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'सुवर्ण-कार्षापणात्' (६।४।१४३) इत्यनेन इकणो वा लुप् । अनेन उत्तरपदवृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [त्रिसौवर्णिकम्] त्रिभिः सुवर्णैः क्रीतं = त्रिसौवर्णिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० → इक । 'सुवर्ण-कार्षापणात्' (६।४।१४३) इत्यनेन इकणो वा लुप् । अनेन उत्तरपदवृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । _[अधिकसौवर्णिकम् ] अधिकेन सुवर्णेन क्रीतम् = अधिकसौवर्णिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'सुवर्ण-कार्षापणात्' (६।४।१४३) इत्यनेन इकणो वा लुप् । अनेन उत्तरपदवृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy