________________
२९२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[श्वादंष्ट्रिः ] शुन इव दंष्ट्रा अस्य । 'गोश्चान्ते०' (२।४।९६) हुस्वः । श्वदंष्ट्रस्यापत्यं = श्वादंष्ट्रिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्वागणिकः ] श्वगणेन चरित = श्वागणिकः । 'चरति' (६।४|११) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्वायूथिकः] शुनो यूथं = श्वयूथम् । श्वयूथेन चरति = श्वायूथिकः । 'चरति' (६।४।११) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शौविकः ] श्वभिश्चरति = शौविकः । 'चरति' (६।४।११) इकण्प्र० → इक । 'द्वारादेः' (७४।६) वात् प्राक् औ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् ।
[शौवहानम् ] 'ओहांक त्यागे' (११३१) हा । 'ओहांङ् गतौ' (११३६) हा । हीयते हायते वा = हानम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । शुनो हानं = श्वहानम् । श्वहानस्येदं = शौवहानम् । 'तस्येदम्' (६।३।१६०) अणप्र० → अ । 'द्वारादेः' (७४/६) वात् प्राक् औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शौवभस्त्रम् ] श्वभस्त्रस्यापत्यं = शौवभस्त्रम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'द्वारादेः' (७।४।६) वात् प्राक् औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[शौवादंष्ट्रो मणिः ] शुनो दंष्ट्रा = श्वादंष्ट्रा । बाहुलकात् दीर्घः । श्वादंष्ट्रायाः विकारः = शौवादंष्ट्रो मणिः । 'दोरप्राणिनः' (६।४९) मयट् इत्यस्य बाधको 'हेमाऽऽदिभ्योऽज्' (६।२।४५) अप्र० → अ । 'द्वारादेः' (७४।६) वात् . प्राक् औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ॥छ।।
इञः ॥ ७।४।११ ॥
.
[इञः] इञ् षष्ठी ङस् ।
[श्वाभस्त्रम् ] 'वादेरिति' (७।४।१०) औकारो वकारात् प्राग् निषेधात् श्वेव भस्त्राऽस्य = श्वभस्त्रः । श्वभस्त्रस्यापत्यं = श्वाभस्त्रिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । श्वाभस्त्रेरिदं = श्वाभस्त्रम् । 'वृद्धजः' (६।३।२८) अप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[श्वाकर्णम्] शुनः इव कर्णावस्य = श्वकर्णः । श्वकर्णस्यापत्यं = श्वाकणिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । श्वाकर्णेरिदं = श्वाकर्णम् । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् । . इकारादौ निमित्ते उच्यमानः पूर्वेण प्रतिषेधः इञन्तस्य प्रत्ययान्तरे न प्राप्नोतीति वचनम् ॥छ।।
पदस्यानिति वा ॥ ७।४।१२ ॥
[पदस्य] पद षष्ठी ङस् । [अनिति] न इत् = अनित् । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् । [वा] वा प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org