SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ २८७ [वैहीनरम्] वहीनरस्येदं = वैहीनरम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन अकारस्य ऐत् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । विहीनरस्य वृद्ध्या सिध्यति । वहीनरस्य वाहीनरिर्मा भूदिति वचनम् ॥छ।। यवः पदान्तात् प्रागैदौत् ॥ ७।४।५ ॥ [य्वः] य च व् च = य्व्, तस्मात् । [पदान्तात्] पदस्यान्तः = पदान्तस्तस्मात् । [प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [ऐदौत् ] ऐच्च औच्च = ऐदौत् । प्रथमा सि । [वैयाकरणः] व्याकरणं वेत्त्यधीते वा = वैयाकरण: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । अनेन यकारात् प्राक् ऐत्० → ऐ० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [नैयायिकः] न्यायं वेत्त्यधीते वा = नैयायिकः । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । अनेन यकारात् प्राक ऐत० → ऐ० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [नैयासिकः] नि 'असूच क्षेपणे' (१२२१) अस् । नितरामस्यन्ते-क्षिप्यन्ते विविधप्रमेया अस्मिन्निति न्यासः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । न्यासं वेत्त्यधीते वा = नैयासिकः । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । अनेन यात् प्राक् ऐत् आगमः , ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । - [वैयसनम् ] वि 'असूच क्षेपणे' (१२२१) अस् । व्यस्यते-क्षिप्यते स्वकार्यात् प्राणी अनेनेति व्यसनम् । 'करणाऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । व्यसने भवं = वैयसनम् । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन यात् प्राक् ऐरागमः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [सौवागमिकः ] स्वागमं वेत्त्यधीते वा = सौवागमिकः । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । अनेन वात् प्राक "औ"आगमः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [सौवश्विः ] स्वश्वस्यापत्यं = सौवश्विः । 'अत इज्' (६।१।३१) इप्र० → इ । अनेन वात् प्राक् "औ" आगमः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [सौवश्वः ] स्वश्वस्यायं = सौवश्वः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अनेन वात् प्राक् "औ"आगमः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । __ [पूर्वत्रैयलिन्दः ] पूर्वत्र्यलिन्दो नाम प्राग्ग्रामः तत्र भवः = पूर्वत्रैयलिन्दः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन यात् प्राक् ऐकारागमः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्र अनेनैदौतौ । [सौपर्णेयः] सुपाः सुपर्णाया वा अपत्यं = सौपर्णेयः । 'झ्याप्त्यूङः' (६।१७०) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।१) अवर्णस्य-इवर्णस्य च लुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy