SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [तत्प्राप्तौ] तस्या-वृद्धेः प्राप्तिस्तत्प्राप्तिस्तस्याम् । [आः] आ प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [दाविकमुदकम् ] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यन्ति देवा अस्यामिति देविका । 'नाम्नि पुंसि च' (५।३।१२१) णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'आत्' (२।४।१८) । आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । देविकायां भवं = दाविकमुदकम् । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन एकारस्य आकारः । सि-अम् । [दाविकाकूलाः शालयः] देविकाकूले भवाः = दाविकाकूलाः शालयः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन एकारस्य आकारः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् । [पूर्वदाविकः] पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः = पूर्वदाविकः । 'भवे' (६।३।१२३) अणप्र० → अ । 'प्राग्ग्रामाणाम्' (७४।१७) इत्यनेनोत्तरपदवृद्धिप्राप्तौ अनेन एकारस्य आकारः । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । प्रथमा सि । 'सो रुः' (२।१९७२) स० → र० । [शांशपः स्तम्भः] शिशपाया विकारः = शांशप: स्तम्भः । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन इकारस्य आकारः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [शांशपास्थलाः शालयः] शिशपायाः स्थलं = शिशपास्थलम् । शिशपास्थले भवाः = शांशपास्थलाः शालयः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन इकारस्य आकारः । जस् । [पूर्वशांशपः ] पूर्वशिशपा नाम ग्रामस्तत्र भवः = पूर्वशांशपः । 'भवे' (६।३।१२३) अण्प्र० → अ । अनेन इकारस्य आकारः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [दार्पसत्रम् ] दीर्घसत्त्रे भवं = दार्घसत्त्रम् । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन ईकारस्य आ । सि-अम् । [श्रायसं द्वादशाङ्गम् ] श्रेयोऽधिकृत्य कृतं = श्रायसम् । 'अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र० → अ । वृद्धिप्राप्तौ अनेन एकारस्य आ । सि-अम् । द्वि-दशन् । द्वाभ्यामधिका दश = द्वादश । 'द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ' (३।२।९२) द्वि० → द्वा० क्रियते । द्वादशानां पूरणः = द्वादशम् । 'संख्यापूरणे डट्' (७।१।११५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । द्वादशं च तदङ्गं च = द्वादशाङ्गम् । सि-अम् । [सौदेविकः] सुदेविकायां भवः = सौदेविकः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् इत्यत्र निषेधार्थम्-पूर्वोत्तरपदानामपि यथास्यादित्येवमर्थं च । अन्यथा हि केवलानामेव स्यात् ॥छ।। वहीनरस्यैत् ॥ ७।४।४ ॥ [वहीनरस्य ] वहीनर षष्ठी ङस् । [ ऐत्] ऐत् प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [वैहीनरिः] वहीनरस्यापत्यं = वैहीनरिः । 'अत इब्' (६।१।३१) इप्र० → इ । अनेन अकारस्य ऐत् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy