________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
२८५
[शैवः] शिवस्यापत्यं = शैवः । 'शिवादेरण' (६।१।६०) अणप्र० → अ० । अनेन वृद्धि: ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । __ [औपगवः] गोः समीपम् = उपगुः । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वः । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । अनेन वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् ।
[ श्रायः स्थालीपाकः ] श्रीर्देवता अस्य = श्रायः । 'देवता' (६।२।१०१) अण्प्र० → अ । अनेन वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
[ हायः] हीर्देवता अस्य = हायः । 'देवता' (६।२।१०१) अण्प्र० → अ । अनेन वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
यत आख्यातवृत्तौ प्रथमपादे 'वृद्धिराऽऽरैदौत्' (३।३।१) इत्यत्र वा(या) वृद्धिरुक्ता सा ज्ञेया, अत्रैव स्वरेष्विति व्यञ्जनापेक्षा व्युदासार्थं तेन व्यञ्जनादेरपि भवति ।
[शङ्कव्यं दारु ] शङ्कवे हितं = शङ्कव्यं दारु । 'उवर्ण-युगादेर्यः' (७।१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । .
[चिकीर्षक:] 'डुकंग करणे' (८८८) कृ। कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० → स० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां क्ङितीर्' (४|४|११६) इ०-कि० । 'सन्-यङश्च' (४।१।३) "कि"द्विः । 'क-ङश्च-ज्' (४।१।४६) क० → च० । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । चिकीर्षतीति चिकीर्षक: । 'णक-तुचौ' (५।१।४८) णकप्र० → अक । 'अतः' (४।३।८२) अलुक् ॥छ।।
__ केकय-मित्रयु-प्रलयस्य यादेरिय् च ॥ ७।४।२ ॥ [ केकयमित्रयुप्रलयस्य ] केकयश्च मित्रयुश्च प्रलयश्च = केकयमित्रयुप्रलयम्, तस्य । [ यादेरिय] य आदिर्यस्य सः = यादिस्तस्य । इय् प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [च] च प्रथमा सि ।
[कैकेयः ] केकयस्यापत्यं = कैकेयः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → - अ० । अनेन वृद्धिः ऐ-यस्य "इय्"देशश्च । 'अवर्णस्ये०' (१।२।६) ए । - [मैत्रेयिकया श्लाघते ] मित्र 'यांक प्रापणे' (१०६२) या । मित्रं यातीति मित्रयुः । 'पी-मृग-मित्र-देव-कुमारलोक-धर्म-विश्व-सुस्नाश्मावेभ्यो युः' (उणा० ७४१) किद् उप्र० । 'इडेत्-पुसि०' (४।३।९४) आलुक् । मित्रयोर्भावः = मैत्रेयिका, तया । 'गोत्र-चरणाच्छ्लाघा-ऽत्याकार-प्राप्त्यवगमे' (७१७५) इत्यादिना अकञ्प्र० → अक । अनेन वृद्धिः ऐ-यस्य "इय्"देशश्च । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । . [प्रालेयं हिमम् ] प्रलयादागतं = प्रालेयं हिमम् । 'तत आगते' (६।३।१४९) अणप्र० , अ । अनेन वृद्धिः आ___ यस्य "इय"आदेशश्च । 'अवर्णस्ये०' (१।२।६) ए । सि-अम् । [ केकयत्वम् ] केकयस्य भावः = केकयत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । सि-अम् ॥छ।।
देविका-शिशपा-दीर्घसत्र-श्रेयसस्तत्प्राप्तावाः ॥ ७।४।३ ॥ [ देविकाशिशपादीर्घसत्रश्रेयसः] देविका च शिशपा च दीर्घसत्रश्च श्रेयांश्च = देविकाशिंशपादीर्घसत्रश्रेयः, तस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org