SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । ॥ अर्हम् ॥ ॥ अथ सप्तमाध्यायस्य चतुर्थः पादः ॥ वृद्धिः स्वरेष्वादेणिति तद्धिते ॥ ७।४।१ ॥ [वृद्धिः] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धिषीष्टेत्याशास्यमाना = वृद्धिः । 'तिकृतौ नाम्नि' (५।१७१) तिप्र० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'धुटस्तृतीयः' (२।११७६) ध० → द० ('तृतीयस्तृतीय०' (१।३।४९) ध० → द०)। प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [स्वरेषु] स्वर सप्तमी सुप् । [आदेः] आदि षष्ठी ङस् । [णिति ] ञ् च ण् च = णौ । ञ्णौ इतौ अनुबन्धौ यस्य सः = ञ्णित्, तस्मिन् । [तद्धिते] तस्मै हितं = तद्धितम्, तस्मिन् । जिति - [दाक्षिः ] दक्षस्यापत्यं = दाक्षिः । 'अत इब्' (६।१।३१) इप्र० → इ० । अनेन वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [प्लाक्षिः] प्लक्षस्यापत्यं = प्लाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ० । अनेन वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [काणिः] कृष्णस्यापत्यं = काणिः । 'ऋषि वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) इत्यस्य बाधको 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । अनेन वृद्धि: आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [नैचाकविः] निचाकोरपत्यं = नैचाकविः । 'ऋषि-वृष्ण्यन्धक०' (६श६१) इत्यस्य बाधको 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । अनेन वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [चौलिः ] चूलाया अपत्यं = चौलिः । 'बाह्वादि०' (६।१।३२) इप्र० → इ० । अनेन वृद्धि: औ । 'अवर्णेवर्णस्य' (७/४/६८) अवर्णस्य लुक् । [कापटवः] कपटोरपत्यं = कापटवः । 'ऋषि वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ० । अनेन वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । _[भार्गवः] भृगोरपत्यं = भार्गवः । 'ऋषि वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ० । अनेन वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy