SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २८३ सुभ्वादिभ्यः ॥ ७।३।१८२ ॥ [सुभ्वादिभ्यः ] सुधूरादिर्येषां ते = सुभ्वादयः, तेभ्यः = सुभ्वादिभ्यः । पञ्चमी भ्यस् । [सुभ्रूः] 'भ्रमूच् अनवस्थाने' (१२३४) भ्रम् । भ्रमणं = भ्रूः । 'भ्रमि-गमि-तनिभ्यो डित्' (उणा० ८४३) इति डित् ऊप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । शोभनं भ्रू-भ्रमणं यस्याः । 'उतोऽप्राणिनश्चाऽयु रज्ज्वादिभ्य ऊङ्' (२।४/७३) ऊप्र० → ऊ । [ लेखाभूः ] लेखावत् भ्रू - भ्रमणं यस्याः = लेखाभूः । 'उतोऽप्राणिनश्चाऽयु०' (२।४।७३) ऊप्र० → ऊ । भ्रूशब्दवत् भ्रशब्दोऽप्यस्ति । [शलाकाभूः] शलाकावत् भ्रू [भूर्यस्याः] सा = शलाकाभ्रः । [कोमलोरू:] कोमले कोमलौ ऊरू यस्याः सा = कोमलोरू: । [संहितोरू:] संहितावुरू यस्याः सा = संहितोरूः । [वरोरू:] वरे ऊरू यस्याः सा = वरोरूः । [पीवरोरू: ] पीवरे ऊरू यस्याः सा = पीवरोरू: । 'उतोऽप्राणिनश्चाऽयु०' (२।४।७३) ऊप्र० → ऊ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । .. [हे सुभ्र!] [सुभ्रूः] तस्याः सम्बोधनं हे सुभ्र ! । आमन्त्र्ये प्रथमैकवचनं सि । 'नित्यदिद्-द्विस्वराऽम्बार्थस्य हस्वः' (१।४।४३) ह्रस्वः । [हे वरोरु!] [वरोरू:] तस्याः सम्बोधनं हे वरोरु ! । आमन्त्र्ये प्रथमैकवचनं सि । 'नित्यदिद्' (१।४।४३) [करभोरूः] करभवत् ऊरू यस्याः सा = करभोरू: । 'उपमान-सहित-संहित-सह-शफ-वाम-लक्ष्मणाङ्रोः ' (२।४।७५) ऊप्र० → ऊ । [संहितोरू:] संहिते ऊरू यस्याः सा = संहितोरू: । 'उपमान-सहित-संहित०' (२।४।८५) ऊप्र० → ऊ ॥छ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ तद्धितस्य सप्तमः पादः ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy